पृष्ठम्:दशरूपकम्.pdf/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः प्रकाशः। इत्युपक्रमे 'राजा-अरे, नाहं भवानिव विकत्थनाप्रगल्भः । किंतु । द्रक्ष्यन्ति न चिराल्सुप्तं बान्धवास्त्वां रणाङ्गणे । मद्गदाभिन्नवक्षोऽस्थिवेणिकाभङ्गभीषणम् ॥' इत्यन्तेन भीमदुर्योधनयोरन्योन्यवाक्यस्याधिक्योक्तिरधिबलम् । अथ गण्ड:---- गण्डः प्रस्तुतसंबन्धिभिन्नार्थ सहसोदितम् ॥ १८ ॥ यथोत्तरचरिते--'रामः-- इयं गेहे लक्ष्मीरियममृतवर्तिनेयनयो- रसावस्याः पशों वपुषि बहलश्चन्दनरसः । अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यम्तु विरहः ।। (प्रविश्य ।) प्रतीहारी-देव, उअस्थिदो । रामः—अयि, कः । प्रती- हारी-देवस्स आसग्णपरिचारओ दुम्मुहो ।' इति । अथावम्यन्दितम्- रसोक्तस्यान्यथा व्याख्या यत्रावस्यन्दितं हि तत् । यथा ललितरामे–'सीता-जाद, कलं क्खु तुझेहि अजुज्झाए ग- न्तव्यम् । तहिं सो राआ विगएण णमिदयो । लव:--अम्ब, किमावाभ्यां गजोपनीविभ्यां भवितव्यम् । सीता-जाद, सो क्खु तुम्हाणं पिदा । लवः किमावयो रघुपतिः पिना । सीता-(साशङ्कम् ।) जाद, ण क्खु परं तुह्माणम् । सअलाए जेब पुहवीए ।' इति । अथ नालिका- सोपहासा निगूढार्था नालिकैव प्रहेलिका ॥ १९ ॥ यथा मुद्राराक्षसे—'चर:- हो ब्रह्मण, मा कुप्प । किं पि तुह १. 'देव, उपस्थितः । इति छाया. २. 'देवस्यासनपरिचारको दुर्मुखः । इति च्छाया. ३. 'जात, कल्यं खलु युवाभ्यामयोध्यायां गन्तव्यम् । तर्हि स राजा वि- नयन नमितव्यः ।' इति च्छाया. ४. 'जात, स खलु युवयो: पिता।' इति च्छाया. ५. 'जात, न खलु परं युवयोः । सकलाया व पृथिव्याः । इति च्छाया. ६. “हेहो ब्राह्मण, मा कुप्य । किमपि तत्रोपाध्यायो जानाति । क्रिमप्यम्मादृशा जना जानन्ति ।' इति च्छाया. -- --