पृष्ठम्:दशरूपकम्.pdf/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके योतिवृत्ते सत्यवागसंवादकारिनीतिशास्त्रप्रसिद्धाभिगामिकादिगुणयुक्तो रामायणमहाभाग्नादिप्रमिद्धो धीरोदात्तो रानपिर्दिन्यो वा नायकस्तत्प्रख्या- तमेवात्र नाटक आधिकारिकं वस्तु विधेयमिति । यत्तत्रानुचितं किंचिनायकस्य रसस्य वा ॥ २४ ॥ विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ।। यथा छद्मना वालिवधो मायुगनेनोदात्तराघवे परित्यक्तः । वीरचरिते तु रावणसौहृदेन वाली रामपामागनो रामेण हत इत्य- न्यथा कृतः । आद्यन्तमेवं निश्चित्य पञ्चधा तद्विभज्य च ॥ २५ ॥ खण्डशः संधिसंज्ञाश्च विभागानपि खण्डयेत् । अनौचित्यरसविरोधपरिहारपरिशुद्धीकृतसूचनीयदर्शनीयवस्तुविभागफ. लानुसारेणोपकप्तबीजबिन्दुपताकाप्रकरीकार्यलक्षणार्थप्रकृतिकं पञ्चावस्थानु- गुण्येन पञ्चधा विभजेत् । पुनरपि चैकैकस्य भागस्य द्वादश त्रयोदश च- तुर्दशेत्येत्रमङ्गसंज्ञानां संधीनां विभागान्कुर्यात् । चतुःषष्टिस्तु तानि स्युरङ्गानीत्यपरं तथा ॥ २६ ॥ पताकावृत्तमप्यूनमेकाबैरनुसंधिभिः । अङ्गान्यत्र यथालाभमसंधि प्रकरौं न्यसेत् ॥ २७ ॥ अपरमपि प्रासङ्गिकमितिवृत्तमेकाद्यैरनुसंधिभि नमिति प्रधानेतिवृत्ता- देकद्वित्रिचतुर्भिरनुसंधिभिनूनं पताकेतिवृत्तं न्यसनीयम् । अङ्गानि च प्र. धानाविरोधे यथालाभं न्यसनीयानि । प्रकरीतिवृत्तं त्वपरिपूर्णसंधि विधेयम् । तत्रैवं विभक्ते-- आदौ विष्कम्भकं कुर्यादङ्क वा कार्ययुक्तितः । इयमत्र कार्ययुक्तिः । अपेक्षितं परित्यज्य नीरसं वस्तुविस्तरम् ॥ २८॥ यदा संदर्शयेच्छेपं कुर्याद्विष्कम्भकं तदा । यदा नु सरसं वस्तु मूलादेव प्रवर्तते ॥ २९ ॥ आदावेव तदाङ्कः स्यादामुखाक्षेपसंश्रयः ।