पृष्ठम्:दशरूपकम्.pdf/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः प्रकाशः। स च- प्रत्यक्षनेतृचरितो बिन्दुव्याप्तिपुरस्कृतः ॥ ३० ॥ अङ्को नानाप्रकारार्थसंविधानरसाश्रयः । रङ्गप्रवेशे साक्षानिर्दिश्यमाननायकव्यापारो बिन्दपक्षेपार्थपरिमितोऽनेक- प्रयोजनसंविधानरसाधिकरण उत्सङ्ग इवाङ्कः । तत्र च-- अनुभावविभावाभ्यां स्थायिना व्यभिचारिभिः ॥३१॥ गृहीतमुक्तेः कर्तव्यमङ्गिनः परिपोषणम् । अङ्गिन एवाङ्गिरसम्थायिनः संग्रहात्स्थायिनेति रमान्तरस्थायिनो ग्रह. शम् । गृहीतमुक्तैः परस्परब्यतिकीर्णैरित्यर्थः । न चातिरसतो वस्तु दूरं विच्छिन्नतां नयेत् ॥ ३२ ॥ रसं वा न तिरोदध्याद्वस्वलंकारलक्षणैः । कथासंध्यङ्गोपमादिलक्षणैर्भूपणादिभिः । एको रसोऽङ्गीकर्तव्यो चीरः शृङ्गार एव का ॥ ३३ ॥ अङ्गमन्ये रसाः सर्वे कुर्यान्निवहणेऽद्भुतम् । ननु न रमान्तरस्थायिनेत्यनेनैव रसान्तराणामङ्गत्वमुक्तम् । तन्न । यत्र रसान्तरस्थायी खानुभावविभाकव्यभिचारियुक्तो भूयसोपनिबध्यते तत्र रसा- तराणामङ्गत्वम् । केवलस्थाय्युपनिबन्धे तु स्थायिनो व्यभिचारितैव । दूरावानं वधं युद्ध राज्यदेशादिविप्लवम् ॥ ३४ ॥ संरोधं भोजनं स्नानं सुरतं चानुलेपनम् । अम्बरग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत् ॥ ३५॥ अङ्कनैवोपनिवनीत प्रवेशकादिभिरेव सूचयेदित्यर्थः । नाधिकारिवधं कापि त्याज्यमावश्यकं न च । अधिकृतनायकवधं प्रवेशकादिनापि न सूचयेत् । आवश्यकं तु देवपि- तृकार्याद्यवश्यमेव क्वचित्कुर्यात् ।। एकाहाचरितकार्थमित्थमासननायकम् ।। ३६ ॥ पात्रत्रिचतुरैर तेषामन्तेऽस्य निर्गमः । १. 'अस्त्रम्य' इति पाठः, २. 'तैः कार्यम्' इति पाठ:.