पृष्ठम्:दशरूपकम्.pdf/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके एकदिवसप्रवृत्तकप्रयोजनसंबद्धमासन्ननायकमबहुपात्रप्रवेशमकं कुर्यात् । तेषां पात्राणामवश्यमङ्कस्यान्ते निर्गमः कार्यः । पताकास्थानकान्यत्र विन्दुरन्ते च बीजवत् ।। ३७ ॥ एवमङ्काः प्रकर्तव्याः प्रवेशादिपुरस्कृताः । पञ्चाङ्कमेतदवरं दशाङ्क नाटकं परम् ॥ ३८॥ इत्युक्तं नाटकलक्षणम् । अथ प्रकरणे वृत्तमुत्पाद्यं लोकसंश्रयम् । अमात्यविश्वणिजामेकं कुर्याच नायकम् ।। ३१ ॥ धीरप्रशान्तं सापायं धर्मकामार्थतत्परम् । शेपं नाटकवत्संधिप्रवेशकरसादिकम् ।। ४० ॥ कविबुद्धिविरचितमितिवृत्तम् । लोकसंश्रयमनुदात्तममात्यावन्यनम- वीरप्रशान्तनायकं विपदन्तरितार्थसिद्धि कुर्यात् । प्रकरणे मन्त्री अमात्य एव । सार्थवाहो वणिविशेष एवेति । स्पष्टमन्यत् । नायिका तु द्विधा नेतुः कुलखी गणिका तथा । कचिदेव कुलजा वेश्या कापि द्वयं कचित् ॥ ४१ ।। कुलजाभ्यन्तरा बाह्या वेश्या नातिक्रमोऽनयोः । आभिः प्रकरणं त्रेधा संकीर्ण धूर्तसंकुलम् ॥ ४२ ॥ वेशो भृतिः सोऽस्या जीवनमिति वेश्या । तद्विशेषो गणिका | य. 'आभिरभ्यर्थिना वेश्या रूपशीलगुणान्त्रिता । लभते गणिकाशब्दं स्थानं च जनसंसदि ॥ एवं च कुलजा वेश्या उभयमिति त्रेधा प्रकरणे नायिका । यथा वेश्यैव तरङ्गदत्ते कुलनैव पुष्पदृषितके । ते द्वेऽपि मृच्छकटिकायामिति । कितव- द्यूतकारादिधूर्तसंकुलं तु मृच्छकटिकादिवत्संकीर्णप्रकरणमिति । अथ नाटिका- लक्ष्यते नाटिकाप्यत्र संकीर्णान्यनिवृत्तये । १, 'सोपायं' इति पाटः.