पृष्ठम्:दशरूपकम्.pdf/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः प्रकाशः। अत्र केचित्- 'अनयोश्च बन्धयोगादेको भेदः प्रयोक्तभिर्जेयः । प्रख्यातस्त्वितरो वा नाटीसंज्ञाश्रिते काव्ये ॥' इत्यमुं भरतीयं श्लोकमेको भेदः पख्यातो नाटिकाय इतरस्त्वप्रख्यातः प्रकरणिकासंज्ञो नाटीसंज्ञया हे काव्ये आश्रिते इतिच्या नक्षाणा: प्रकर- णिकामपि मन्यन्ते । तदसत् । उद्देशलक्षणयोरनभिधानात्ममानलक्षणन्वे वा भेदाभावात । वस्तुरसनायकानां प्रकरणाभेदात्मकरणिकायाः । अतो- ऽनुद्दिष्टाया नाटिकाया यन्मुनिना लक्षणं कृतं नत्रायमभिवामः । शुद्धल- क्षणमंकरादेव तल्लक्षणे सिद्धे लक्षणकरणं संकीर्णानां नाटिकैव कर्तव्येति नियमार्थ विज्ञायते । तमेव संकरं दर्शयति- नत्र वस्तु प्रकरणान्नाटकानायको नृपः॥ ४३ ॥ प्रख्यातो धीरललितः शृङ्गारोऽङ्गी सलक्षणः । उत्पायेतिवृत्तत्वं प्रकरणधर्मः प्रख्यातनृपनायकादित्वं तु नाटक धर्म इति । एवं च नाटकाकरणनाटिकातिरेकेण वरत्वादेः प्रकरणिकायामभावा- दङ्कपात्रभेदादि भेदः । तत्र- स्रीपायचतुरङ्कादिभेदकं यदि चेष्यते ॥ ४४ ।। एकद्विव्यङ्कपात्रादिभेदेनानन्तरूपता । तत्र नाटिकेति स्त्रीसमाख्ययौचित्यप्राप्तं स्त्रीप्रधानत्वम् । कैशिकीवृत्त्या- श्रयत्वाच्च तदङ्गसंन्ययाल्पावमर्शत्वेन चतुरङ्कत्वमप्यौचित्यप्राप्तमेव । विशेषस्तु- देवी तत्र भनेज्येष्ठा प्रगल्भा नृपवंशजा ॥ ४५ ॥ गम्भीरा मानिनी कृच्छ्रात्तद्वशान्नेतसंगमः । प्राप्या तु- नायिका तादृशी मुग्धा दिव्या चातिमनोहरा ॥ ४६ ।। तादृशीति नृपवंशजत्वादिधर्मातिदेशः । अन्तःपुरादिसंबन्धादासना श्रुतिदर्शनैः। १. 'संगमे' इनि पाठः. २. 'प्राप्यान्या इति पाठः.