पृष्ठम्:दशरूपकम्.pdf/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके अनुरागो नवावस्थो नेतुस्तस्यां यथोत्तरम् ॥ ४७ ।। नेता तत्र मवर्तेत देवीत्रासेन शङ्कितः । तस्यां मुग्धनायिकायामन्तःपुरसंबन्धसंगीतकसंबन्धादिना प्रत्यासन्नायां नायकस्य देवीप्रतिबन्धान्तरित उत्तरोत्तरो नवावस्थानुरागो निबन्धनीयः । कैशिक्यङ्गश्चतुर्भिश्च युक्ताङ्करिव नाटिका ॥ ४८ ॥ प्रत्यकोपनिषदाभिहितलक्षणकैशिक्यङ्गचतुष्ट यवती नाटिकेति । अथ भाण:-...- भागस्तु धूर्तचरितं स्वानुभूतं परेण वा। यत्रोपवर्णयदेको निपुणः पण्डितो विटः ॥ ४९ ॥ संबोधनोक्तिप्रत्युक्ती कुर्यादाकाशभापितः। मूचयेद्वीरशृङ्गारौ शोयसौभाग्यसंस्तवः ॥ ५० ॥ भूयसा भारती वृत्तिरेकाई वस्तु कल्पितम् । मुखनिर्वहणे साङ्गे लास्याङ्गानि दशापि च ॥५१ ।। यूर्ताश्चौरबूतकारादयस्तेषां चरितं यत्रैक एवं विटः स्वकृतं परकृतं वोप- वर्णयति स भारतीवृत्तिप्रधानत्वाद्भाणः । एकस्य चोक्तिप्रत्युक्तय आकाश- भाषितैराशङ्कितोत्तरत्वेन भवन्ति । अस्पष्टत्वाच्च वीरशृङ्गारौ सौभाग्यशौर्यो- पवर्णनया सूचनीयौ । लास्याङ्गानि- गेयं पदं स्थितं पाठ्यमासीनं पुष्पगण्डिका। पच्छेदकस्विगूढं च सैन्धवाख्यं द्विगूढकम् ॥५२॥ उत्तमोत्तमकं चैव उक्तमत्युक्तमेव च । लास्ये दश विधं होतदानिर्देशकल्पनम् ।। ५३ ॥ शेषं स्पष्टमिति । अथ प्रहसनम्- तद्वत्महसनं त्रेधा शुद्धवैकृतसंकरैः। तद्वदिति भाणवद्वस्तुसंधिसंध्यङ्गलास्यादीनामतिदेशः । तत्र शुद्धं तावत्- १. 'चान्यदुक्त' इति पाट:. २. 'लक्षणम्' इति पाठः,