पृष्ठम्:दशरूपकम्.pdf/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

30 दशरूपके 'इदं त्रिपुरदाहे तु लक्षणं ब्रह्मणो नम् । ततत्रिपुरदाहश्च डिमसंज्ञः प्रयोजितः ।। इति भरतमुनिना स्वयमेव त्रिपुरदाहेतिवृत्तस्य तुल्यत्वं दर्शितम् । अथ व्यायोगः- ख्यातेतिवृत्तो व्यायोगः ख्यातोद्धतनराश्रयः ॥ ६०॥ हीनो गर्भविमर्शाभ्यां दीप्ताः स्युडिमवशाः । अस्त्रीनिमित्तसंग्रामो जामदग्यजये यथा ॥ ६१ ॥ एकाहाचरितैकाको व्यायोगो बहुभिर्नरैः। व्यायुज्यन्तेऽस्मिन्बहवः पुरुषा इति व्यायोगः । तत्र डिमवद्रसाः पट हास्यशृङ्गाररहिताः । वृत्त्यात्मकत्वाच रसानामवचनेऽपि कैशिकीरहिते- तरवृत्तित्वं रसवदेव लभ्यते । अस्त्रीनिमित्तश्चात्र संग्रामः । यथा परशुरा- मेण पितृवधकोपात्सहस्रार्जुनवधः कृतः । शेषं स्पष्टम् । अथ समवकारः- कार्य समवकारेऽपि आमुखं नाटकादिवत् ॥ ६२ ॥ ख्यातं देवासुरं वस्तु निविमर्शास्तु संधयः । वृत्तयो मन्दकैशिक्यो नेतारो देवदानवाः ॥ ६३ ॥ द्वादशोदात्तविख्याताः फलं तेषां पृथक्पृथक् । बहुवीररसाः सर्वे यद्वदम्भोधिमन्थने ॥ ६४ ।। अङ्कस्त्रिभिस्त्रिकपटस्त्रिशृङ्गारनिविद्रवः । द्विसंधिरङ्कः प्रथमः कार्यो द्वादशनालिकः ॥६५॥ चतुर्द्विनालिकावन्त्यो नालिका घटिकाद्वयम् । वस्तुस्वभावदैवारिकृताः स्युः कपटास्त्रयः ॥ ६६ ।। नगरोपरोधयुद्धे वाताग्यादिकविद्रवाः । धर्मार्थकामैः शृङ्गारो नात्र बिन्दुप्रवेशको ॥ ६ ॥ वीथ्यङ्गानि यथालाभं कुर्यात्महसने यथा । समवकीर्यन्तेऽस्मिन्ना इति समवकारः । तत्र नाटकादिननामुगमा १. 'नाटिकः' इति पाठः. २. 'नाडिका' इति पाठः,


-.. - . .-...-