पृष्ठम्:दशरूपकम्.pdf/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके उद्दीपनविभावो यथा- 'अयमुदयति चन्द्रश्चन्द्रिकाधौनविश्वः · परिणतविमलिन्नि ब्योम्नि कर्पूरगौरः । कनुग्नतशलाकाम्पनिभिर्यम्य पादै- जगदमलमणान्दीप जग्म्य विभाति ।।' अनुभावो विकारस्तु भावसंमूचनात्मकः । स्थायिभावाननुभावयतः मामानिकान्म भूविलेषकटाक्षादयो रमपोपका. रिणोऽनुभावाः । एते चाभिनयकाव्ययोरप्यनुभावयतां मालादावर नुभव- कर्मतयानुभूयन्त इत्यनुभवनमिति चानुभावा रसिकेपु व्यपदिश्यन्ते । वि- कारो भावसंसूचनात्मक इति तु लौकिकरसापेक्षया इह तु तेषां कारण- त्वमेव । यथा ममैव- 'उज्जृम्भाननमुल्लसत्कुचतटं लोलभ्रमलतं स्वेदाम्भःस्मपिताङ्गायष्टिविगली सरोमाञ्चया । धन्यः कोऽपि युवा स यस्य वदने व्यापारिताः सम्यहं मुग्वे दुग्धमहाब्धिफेनपटलप्रग्याः कटाक्षच्छटाः ॥' इत्यादि यथारसमुदाहरिप्यामः । हेतुकार्यात्मनोः सिद्रिस्तयोः संव्यवहारतः ॥ ३ ॥ ___ तयोविभावानुभावयोलौकिकरसं प्रतिहेतुकार्यभूतयोः संव्यवहारादेव सि. द्धत्वान्न पृथग्लक्षणमुपयुज्यते । तदुक्तम्-~-'विभावानुभावी लोकसंसिद्धी लोकयात्रानुगामिनो लोकस्वभारोपगनावाच न पृपग्लक्षणमुच्यते' इति । अथ भावः- ___ सुखदुःखादिकैर्भावर्भावस्तद्भावभावनम् । अनुकार्याश्रयत्वेनोपनिवध्यमानैः सुखदुःखादिरूपैविस्तद्भावस्य भावक- चेतसो भावनं वासनं भावः । तदुक्तम्- 'अहो ह्यनेन रसेन गन्धेन वा सर्वमे- तद्भावितं वासितम्' इति । यत्तु रसान्भावयन्भाव इति, कवेरन्तर्गतं भावं भावयन्भाव इति च, तदभिनयकाव्ययोः प्रवर्तमानस्य भावशब्दस्य प्रवृ- त्तिनिमित्तकथनम्। ते च स्थायिनो व्यभिचारिणश्चेति वक्ष्यमाणाः ।