पृष्ठम्:दशरूपकम्.pdf/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः प्रकाशः । १०३ द्वितीयः-गृहीतधनुषा रामहतकेन । प्रथमः-किमेकाकिनैव । द्वितीयः-अदृष्ट्वा कः प्रत्येति । पश्य तावतोऽस्मद्वलस्य । सद्यश्छिन्नशिरःश्वभ्रमज्जकङ्ककुलाकुलाः। कबन्धाः केवलं जातास्तालोत्ताला रणाङ्गणे ॥ प्रथमः-सखे, यद्येवं तदाहमेवंविधः किं करवाणि ।' इति । अथ हर्ष:---- प्रसत्तिरुत्सवादिभ्यो हर्षोऽश्रुखेदगद्गदाः । प्रियागमनपुत्रजननोत्सवादित्रिभावैश्वेतःप्रसादो हर्षः । तत्र चाश्रुस्वेद- गदादयोऽनुभावाः। यथा-- 'आयाते दयिते मरुस्थलभुवामुत्प्रेक्ष्य दुर्लङ्घचतां गहिन्या परितोषबाप्पकलिलामासज्य दृष्टिं मुखे । दत्त्वा पीलुशमीकरीरकवलान्वेनाञ्चलेनादरा- दुन्पृष्टं करभस्य केसरसटाभारायलग्नं रजः ॥ निर्वेदवदितरदुन्नेयम् । अथ दैन्यम्- दौर्गत्यायैरनौजस्यं दैन्यं कााजादिमत् ॥ १४ ॥ दारिद्रयन्यक्कारादिविभावैरनौजस्कता चेतसो दैन्यम् । तत्र च कृष्ण- तामलिनवसनदर्शनादयोऽनुभावाः । यथा- 'वृद्धोऽन्धः पतिरेप मञ्चकगतः स्थूणावशेषं गृहं कालोऽभ्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो । यत्नात्संचिततैलबिन्दुघटिका भन्नेति पर्याकुला दृष्ट्वा गर्मभरालसा सुतवणूं श्वश्रूश्चिरं रोदिति ॥' शेषं पूर्ववत् । अयोग्यम्---- दुष्टेऽपराधदौमुख्यक्रौर्यैश्चण्डलमुग्रता । डनादयः॥ १५॥ १. 'चार्यः' इति पाट:.