पृष्ठम्:दशरूपकम्.pdf/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः प्रकाशः। संप्रत्येव निवेद्य केलिकुररी सास्त्रं सखीभ्यः शिशो- माधव्याः सहकारकेण करुणः पाणिग्रहो निर्मितः ॥..' इत्यादिवच्छृङ्गाराश्रयालम्बनत्वेन मरणे व्यवसायमात्रमुपनिवन्धनीयम् । अन्यत्र कामचारः । यथा वीरचरिते---'पश्यन्तु भवन्तस्ताडकाम् । 'हमर्मभेदिपतदुत्कटकङ्कपत्र- . संवेगतत्क्षणकृतस्फुरदअभङ्गा । नासाकुटीरकुहरद्वयतुल्यनिर्य- दुहृदुदध्वनदायसरा मृतैव । अथ मदः- हर्पोत्कर्षो मदः पानात्स्वलदङ्गवचोगतिः ॥ २१ ॥ निद्रा हासोऽत्र रुदितं ज्येष्ठमध्याधमादिषु । यथा मारे- 'हावहारि हसितं वचनानां कौशलं दृशि विकारविशेषाः । चक्रिरे भृशमजोरपि वध्वाः कामिनेव तरुणेन मद्देन ।' इत्यादि। अथ सप्तम् --- मुप्तं निद्रोद्भवं तत्र श्वासोच्छासक्रियापरम् ।। २२ ।। यथा- •'लघुनि तृणकुटीरे क्षेत्रकोणे यवान नवकन्दमपलालबम्तरे सोपधाने । परिहरति सुषुप्तं हालिकद्वन्द्वमारा- कुचकलशमहोप्माबद्धरेखस्तुषारः ।। अध निद्रा--- मनःसंमीलनं निद्रा चिन्तालस्यक्लमादिभिः । ___ तत्र जृम्भाङ्गभङ्गाक्षिमीलनोत्स्वमतादयः ॥ २३ ॥ यथा--- निद्रार्धमीलितदृशो मदमन्थराणि नाप्यर्थवन्ति न च यानि निरर्थकानि । १. 'उच्सनादयः' इति पाठः,