पृष्ठम्:दशरूपकम्.pdf/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके ..... अद्यापि मे मृगदृशो मधुराणि तस्या- स्तान्यक्षराणि हृदये किमपि ध्वनन्ति ।।' यथा च माये--- 'प्रहरकमपनीय स्वं निदिदासतोचैः प्रतिपदमुपहूतः केनचिजागृहीति । मुहुरविशदवर्णा निद्रया शून्यशून्यां दददपि गिरमन्तर्बुध्यते नो मनुष्यः ।।' अथ विबोधः- विबोधः परिणामादेस्तत्र जृम्भालिमर्दने । यथा माधे- 'चिररतिपरिखेदप्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः । अपरिचलितगात्राः कुर्वते न प्रियाणा- मशिथिलभुजचक्राश्लेषभेदं तरुण्यः ॥' अथ श्रीडा--... दुराचारादिभित्रोंडा घााभावस्तमुन्नयेत् । साचीकृताशावरणवैवण्याधोमुखादिभिः ।। २४ ।। यथामरुशतके- 'पटालग्ने पत्यौ नमयति मुखं जातविनया हठालेपं वाञ्छत्यपहरति गात्राणि निभृतम् । न शकोल्याख्यातुं स्मितमुखसखीदत्तनयना हिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥' अधापामार:---- आवेशो ग्रहदुःखाद्यैरपस्मारो यथाविधिः। भूषातकम्पप्रखेदलालाफेनोगमादयः ॥ २५॥ यथा माघे- 'आश्लिष्टभूमि रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम् । फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ।'