पृष्ठम्:दशरूपकम्.pdf/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः प्रकाशः । अथ मोहः- मोहो विचित्तता भीतिदुःखावेशानुचिन्तनैः । तत्राज्ञानभ्रमाघातघूर्णनादर्शनादयः ॥ २६ ॥ यथा कुमारसंभवे- 'तीव्राभिषङ्गप्रभवेन वृत्ति मोहेन संस्तम्भयतेन्द्रियाणाम् । अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ॥' यथा चोत्तररामचरिते- 'विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः । तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो विकारः कोऽप्यन्त डयति च तापं च कुरुते ॥' अथ मतिः--- __भान्तिच्छेदोपदेशाभ्यां शास्त्रादेस्तत्त्वधीमतिः । यथा किराते-- 'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः ।।' यथा च- 'न पण्डिताः साहसिका भवन्ति श्रुत्वापि ते संतुलयन्ति तत्त्वम् । तत्त्वं समादाय समाचरन्ति स्वार्थ प्रकुर्वन्ति परस्य चार्थम् ।।" अथालस्यम्-- आलस्य श्रमगर्भादेजयजृम्भासितादिमत् ॥ २७ ॥ यथा ममैव- 'चलति कथंचित्पृष्टा यच्छति वचनं कथंचिदालीनाम् । आसितुमेव हि मनुते गुरुगर्भमरालसा सुतनुः ॥' अथावेग:--- आवेगः संभ्रमोऽस्मिन्नभिसरजनिते शस्त्रनागाभियोगो वातात्पांसूपदिग्धस्वरितपद्गतिवर्षजे पिण्डिताङ्गः । उत्पातात्स्रस्तताङ्गेष्वहितहितकृते शोकहानुभावा वधूमाकुलास्यः करिजमनु भयस्तम्भकम्पापसाराः ॥२८॥ १. 'मायाभियोगी' इति पाट:. द०१०