पृष्ठम्:दशरूपकम्.pdf/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके यथा विकटनितम्बायाः- 'अन्यासु तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु । बालामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि कि नवमल्लिकायाः ॥' यथा वा- 'विनिकषणरणत्कठोरदंष्ट्राक्रकचविशङ्कटकन्दरोदराग। अहमहमिकया पतन्तु कोपात्मममधुनैव किमत्र मन्मुखानि ॥' अथवा प्रस्तुतमेव तावत्सुविहितं करिष्ये ।' इति । अन्ये च चित्तवृत्तिविशेषा एतेषामेव विभावानुभावस्वरूपानुप्रवेशान्न पृथावाच्याः । अथ स्थायी-- विरुद्धैरविरुदैर्वा भावैर्विच्छिद्यते न यः । आत्मभावं नयत्यन्यान्स स्थायी लवणाकरः ॥ ३४ ॥ सजातीयविजातीयभावान्तरैरतिरस्कृतत्वेनोपनिबध्यमानो रत्यादिः स्था- यी। यथा बृहत्कथायां नरवाहनदत्तस्य मदनमञ्जूषायामनुरागः । तत्तद्वान्त- रानेकनायिकानुरागैरतिरस्कृतः स्थायी । यथा च मानतीमानी श्मशानाङ्के बीभत्सेन मालल्यनुरागस्यातिरस्कारो मम हि प्राक्तनोपलम्भसमावितात्मजन्म- नः संस्कारस्यानवरतप्रबोधात्प्रतीयमानस्तद्विसदृशैः प्रत्ययान्तरैरतिरस्कृतप्र. वाहः प्रियतमास्मृतिप्रत्ययोत्पत्तिसंतानस्तन्मयमिव करोत्यन्तवृत्तिसारूप्यत- श्चैतन्यमित्यादिनोपनिबद्धः । तदनेन प्रकारेण विरोधिनामविरोधिनां च स- मावेशो न विरोधी । तथाहि । विरोधः सहानवस्थानं बाध्यबाधकमावो वा। उभयरूपेणापि न तावत्तादात्म्यमस्यैकरूपत्वेनैवाविर्भावात् । स्थायिनां च विभावादीनां यदि विरोधस्तत्रापि न तावत्सहानवम्थानं रत्या परत्ते चेतसि स्त्रक्सूत्रन्यायेनाविरोधिनां व्यभिचारिणां चोपनिबन्धः समस्तभावकस्वसंवे- दनसिद्धः । यथैव स्वसंवेदनसिद्धस्तथैव काव्यव्यापारसंरम्भेणानुकार्येऽप्या. वेश्यमानः स्वचेतःसंमेदेन तथाविधानन्दसंविदुन्मीलनहेतुः संपद्यते । तस्मा- न तावद्भावानां सहानवस्थानम् | MITHITIJ भावान्तरेभोवान्तरति- रस्कारः। स च व्यभिचारिणां स्थायिनामविरुद्धन्यभिचारिभिः स्थायिनोऽवि-