पृष्ठम्:दशरूपकम्.pdf/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः प्रकाशः । रुद्धास्तेषामङ्गत्वात्प्रधानविरुद्धस्य चाहन्वायोगादानन्तर्यविरोधित्वमप्यनेन प्रकारेणापास्तं भवति । तथा च मालतीमाधवे शृङ्गारानन्तरं बीमत्सोपनिब- धेऽपि न किंचिद्वैरस्यं तदेवमेव स्थिते विरुद्धरसैकावलम्बनत्वमेव विरोधे हेतुः । सत्वविरुद्धरसान्तरव्यवधानेनोपनिबध्यमानो न विरोधी । यथा- 'अण्णहुणाहुमहेलिअहुजुहुपरिमलुसुसुअन्धु ।। मुहुकन्तह अगत्थणहअङ्गण फिट्टइ गन्धु ।' इत्यत्र बीभत्सरसस्याङ्गभूतरसान्तरव्यवधानेन शृङ्गारसमावेशो न विरुद्धः प्रकारान्तरेणैकाश्रयविरोधी परिहर्तव्यः । ननु यत्रैकतात्पर्येणेतरेषां विरु. द्वानामविरुद्धानां च न्याभूतत्वेनोपादानं तत्र भवत्वङ्गत्वेनाविरोधः । यत्र तु समप्रधानत्वेनानेकस्य भावस्योपनिबन्धनं तत्र कथम् । यथा--- 'ऐकत्तो रुअइ पिआ अण्णत्तो समरतूरणिग्योसो। पेम्मेण रणरसेण अ भडस डोलाइअं हिअअम् ॥' इत्यादौ रत्युत्साहयोः । यथा वा-. 'मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदन्तु । सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम् ।।" इत्यादी रतिशमयोः । यथा च--- 'इयं सा लोलाक्षी त्रिभुवनललामैकवसतिः स चायं दुष्टात्मा स्वसुरपकृतं येन मम तत् । इतस्तीवः कामो गुरुरयमितः क्रोधदहनः कृतो वेपश्चायं कथमिदमिति भ्राम्यति मनः ।।' इत्यादौ तु रतिकोधयोः । "अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोल्पल- व्यक्तोत्तंसभृतः पिनद्धशिरसा हृत्पुण्डरीकस्रजः । एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिब- न्त्यस्थिस्नेहसुरां कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥' इत्यादावेकाश्रयत्वेन रतिजुगुप्सयोः । 'एक ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनतटे शृङ्गारभारालसम् । १. नितान्तास्फुटत्वादस्य श्लोकस्य व्याख्या न लिख्यतेऽस्माभिः. २. 'एकतो रोदिति प्रियान्यतः समरतूर्यनिर्घोषः । प्रेम्णा रणरसेन च भटस्य दोलायितं हृदयम् ॥ इति च्छाया.