पृष्ठम्:दशरूपकम्.pdf/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ दशरूपके अन्यद्रविकृष्टचापमदनक्रोधानलोद्दीपितं शंभौभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥' इत्यादौ शमरतिक्रोधानाम् । 'एकेनाक्ष्णा प्रविततरुषा वीक्षते व्योमसंस्थ भानोबिम्ब सजललुलितेनापरेणात्मकान्तम् । अह्नश्छेदे दयितविरहाशङ्किनी चक्रवाकी द्वौ संकीर्णी रचयति रसौ नर्तकीव प्रगल्मा ॥' इत्यादौ रतिशोककोधानां समप्राधान्येनोपनिबन्धस्तत्कथं न विरोधः । अत्रोच्यते--अत्राप्येक एव स्थायी । तथाहि । 'एकत्तो रुअइ पिआ' इत्यादौ स्थायिभूतोत्साहव्यभिचारिलक्षणवितर्कभावहेतुसंदेह कारणनमा क- रुणसभामतूर्ययोरुपादानं वीरमेव पुष्णातीति भटस्येत्यनेन पदेन प्रतिपादि- तम् । न च द्वयोः समप्रधानयोरन्योन्यमुपकार्योपकारकभावरहितयोरेक- वाक्यभावो युज्यते । किंचोपक्रान्ते सङ्काने सुभटानां कार्यान्तरकरणेन प्र- स्तुतसङ्ग्रामौदासीन्येन महदनौचित्यम् । अतो भर्तुः सङ्गामैकरसिकतया शौर्यमेव प्रकाशयन्प्रियतमाकरुणो वीरमेव पुष्णाति । एवम् 'मात्सर्यम्-' इत्यादावपि चिरप्रवृत्तरतिवासनाया हेयतयोपादानाच्छमैकपरत्वम् 'आर्याः समर्यादम्' इत्यनेन प्रकाशितम् । एवम् 'इयं सा लोलाक्षी' इत्यादावपि रा- वणस्य प्रतिपक्षनायकतया निशाचरत्वेन मायाप्रधानतया च रौद्रव्यभिचा- रिविषादविभाववितर्कहेतुतया रतिक्रोधयोरुपादानं रौद्रपरमेव । 'अन्त्रैः क- ल्पितमङ्गलप्रतिसराः' इत्यादौ हास्यरसैकपरत्वमेव । “एकं ध्याननिमील. नात्' इत्यादी शंभोर्भावान्तरैरनाक्षिप्ततया शमस्थस्यापि योग्यन्तरशमाद्वैल. क्षण्यप्रतिपादनेन शमैकपरतैव 'समाधिसमये' इत्यनेन स्फुटीकृता । 'एकेना. क्ष्णा' इत्यादौ तु समस्तमपि वाक्यं भविष्यद्विप्रलम्भविषयमिति न कचि. दनेकतात्पर्यम् । यत्र तु श्लेषादिवाक्येप्वनेकतात्पर्यमपि तत्र वाक्यार्थभेदेन स्वतन्त्रतया चार्थद्वयपरतेत्यदोषः । यथा--- 'लाव्याशेषत, सुदर्शनकरः सर्वाङ्गलीलानित- त्रैलोक्यां चरणारविन्दललितेनाक्रान्तलोको हरिः । बिभ्राणां मुखमिन्दुसुन्दररुचं चन्द्रात्मचक्षुर्दध- स्थाने यां स्वतनोरपश्यदधिकां सा रुक्मिणी वोऽवतात् ।'