पृष्ठम्:दशरूपकम्.pdf/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः प्रकाशः । इत्यादौ । तदेवमुक्तप्रकारेण रत्यायुपनिबन्धे सर्वत्राविरोधः । यथा वा श्रूयमाणरत्यादिपदेष्वपि वाक्येषु तत्रैव तात्पर्य तथाने दर्शयिष्यामः । रत्युत्साहजुगुप्साः क्रोधो हासः स्मयो भयं शोकः । शममपि केचित्साहुः पुष्टि व्येषु नैतस्य ॥ ३५ ।। इह शान्तरसं प्रति वादिनामनेकविधा विप्रतिपत्तयः । तत्र केनिदाहुः-- नास्त्येव शान्तो रसः । तस्याचार्येण प्रिनिगादनालक्षणाकरणान् । अन्ये तु वस्तुतस्तस्यामावं वर्णयन्ति । अनादिकानप्रवाहागातरागद्वेषयो- रुच्छेत्तुमशक्यत्वात् । अन्ये तु वीरबीभत्सादावन्तभावं वर्णयन्ति । एवं वदन्तः शममपि नेच्छन्ति । यथा तथास्तु । सर्वथा नाटकादावभिनयात्मनि स्थायित्वमस्माभिः शमस्य निषिध्यते । तस्य समस्तव्यापारप्रविलयरूपस्या- भिनयायोगात् । यत्तु कैश्चिन्नागानन्दादौ शमस्य स्थायित्वमुपवर्णितम्, तत्तु मलयवत्यनुरागेणाप्रबन्धप्रवृत्तेन विद्याधरचक्रवर्तित्वप्रात्याविरुद्धम् । न घे. कानुकायेविभावालम्बनो विषयानुरागापरागावुपलब्धौ। अतो दयावीरोत्साह स्यैव तत्र स्थायित्वम् । तत्रैव शृङ्गारस्याङ्गत्वेन चक्रवर्तित्वावाप्तेश्च फल- न्वेनाविरोधादीप्सितमेव न सर्वत्र कर्तव्यमिति परोपकारप्रवृत्तस्य विनिगी- पोर्नान्तरीयकत्वेन फलं संपद्यत इत्यावेदितमेव प्राक् । अतोऽष्टावेव स्था- यिनः । ननु च रसनादसत्वमेतेषां मधुरादीनामिवोक्तमात्राः । निर्वेदा- दिप्वपि तत्प्रकाममस्तीति तेऽपि रसाः ।।' इत्यादिना रसान्तराणामप्यन्यैरभ्यु- पगतत्वात्स्थायिनोऽप्यन्ये कल्पिता इत्यवधारणानुपपत्तिः । अत्रोच्यते-- निर्वेदादिरताप्यादस्थायी स्वदते कथम् । वैरस्यायैव तत्पोषस्तेनाष्टौ स्थायिनो मताः ॥ ३६॥ विरुद्धाविरुद्धाविच्छेदित्वस्य निर्वेदादीनामभावादस्थायित्वम् । अत एव ते चिन्तादिस्वस्वव्यभिचार्यन्तरिता अपि परितोषं नीयमाना वैरस्यमावह- न्ति । न च निष्फलावसानत्वमेतेधामस्थायित्वनिबन्धनं हास्यादीनामप्य- स्थायित्वप्रसङ्गात् । पारम्पर्येण तु निर्वेदादीनामपि फलवत्त्वात् । अतो निष्फलत्वमस्थायित्वे प्रयोजकं न भवति । किंतु विरुद्धरविरुद्धैर्भावरतिर- स्कृतत्वम् । न च निर्वेदादीनामिति न ते स्थायिनः । ततो रसत्वमपि न तेषा- मुच्यते । अतोऽस्थायित्वादेवैतेषामरसता। क. पुनरेतेषां काव्येनापि संबन्धः ।