पृष्ठम्:दशरूपकम्.pdf/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके न तावद्वाच्यवाचकभावः स्वशब्दैरनावेदितत्वात् । न हि शृङ्गारादिरसेषु का- व्येषु शृङ्गारादिशब्दा पत्यादिशब्दा वा श्रूयन्ते। येन तेषां तत्परिपोषस्य वा- भिधेयत्वं स्यात् । यत्रापि च श्रूयन्ते तत्रापि विभावादिद्वारकमेव रसत्वमेतेषां न स्वशब्दाभिधेयत्वमात्रेण । नापि लक्ष्यलक्षकभावस्तत्सामान्याभिधायिनस्तु लक्षकस्य पदस्याप्रयोगात् । नापि लक्षितलक्षणया तत्प्रतिपत्तिः । यथा 'गङ्गायां घोषः' इत्यादौ । तत्र हि स्वार्थे स्रोतोलक्षणे घोषस्यावस्थानासं- भवात्स्वार्थे स्खलद्गतिर्गङ्गाशब्दः स्वार्थ विना भूनार्थोपलक्षितं तटमुपलक्षयति । अत्र तु नायकादिशब्दाः स्वार्थेऽस्खलगातयः कामिना निरगुणामागेयुः । को वा निमित्तप्रयोजनाम्यां विना मुख्ये सत्युपचरितं प्रयुञ्जीत । 'सिंहो माणवकः' इत्यादिवत् । अतएव गुणवृत्त्यापि नेयं प्रतीतिः । यदि वा- च्यत्वेन रसप्रतिपत्तिः स्यात्तदा केवलवाच्यवाचकभावमात्रव्युत्पन्नचेतसामप्य- रसिकानां रसास्वादो भवेत् । न च काल्पनिकत्वमविगानेन सर्वसहृदयानां रसास्वादोद्भतेः । अतः केचिदभिधालक्षणागौणीभ्यो वाच्यान्तरपरिकल्पि- तशक्तिभ्यो व्यतिरिक्तं व्यञ्जकत्वलक्षणं शब्दव्यापार रसालंकारवस्तुविषय- मिच्छन्ति । तथाहि । विभावानुभावव्यभिचारिमुखेन रसादिप्रतिपत्तिरुपजाय- माना कथमिव वाच्या स्यात् । यथा कुमारसंभवे-- 'विवृण्वती शैलमुतापि भावमङ्गैः स्फुरद्वालकदम्बकल्पैः । साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥' इत्यादावनुरागजन्यावस्थाविशेषानुभाववद्विरिजालक्षणविभावोपवर्णनादेवाश- ब्दापि शृङ्गारप्रतीतिरुदेति । रमान्तरेप्वप्ययमेव न्यायः । न केवलं रसे- प्वेव यावद्वस्तुमात्रेऽपि । यथा- 'भम धम्मिअ वीसद्धो सो सुणहो अन्ज मारिओ तेण । गोलाणइकच्छकुडङ्गवासिणा दरिअसीहेण ॥ इत्यादौ निषेधपतिपत्तिरशब्दापि व्यञ्जकशक्तिमूलैव । तथालंकारेष्वपि-- 'लावण्यकान्तिपरिपूरितदिङ्मुखेऽस्मि- स्मेरेऽधुना तव मुखे नग्लायनाति। सोमं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः ॥' १. भ्रम धार्मिक विश्रब्धः स वाद्य मारितस्तेन । गोदावरीनदीकच्छकुटावासिना दरीसिंहेन । इति उछाया, ..- - -. -.-...-.---.-...