पृष्ठम्:दशरूपकम्.pdf/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः प्रकाशः । इत्यादिषु चन्द्रतुल्यं तन्वीवदनारविन्दमित्याग्रुपमाद्यलंकारप्रतिपत्तिय॑ञ्जक- त्वनिबन्धनीति । न चामावर्धापत्तिनन्या । अनुपपद्यमानार्थापेक्षाभावात् । नापि वाक्यार्थत्वं व्यङ्गयस्य तृतीयकक्षाविषयत्वात्। तथाहि-'भ्रम धार्मिक' इत्यादौ पदार्थविषयाभिधालक्षणप्रथमकक्षातिकान्तक्रियाकारकसंसर्गात्मक- विधिविषयवाक्यार्थकक्षातिक्रान्ततृतीयकक्षाकान्तो निषेधात्मा व्यङ्गचल- क्षणोऽर्थो व्यञ्जकशक्तयधीनः स्फुटमेवावभासते । अतो नासौ वाक्यार्थः । ननु च तृतीयकक्षाविषयत्वमश्रूयमाणपदार्थतात्पर्येषु 'विपं भुव' इत्यादि- वाक्येषु निषेधार्थविषयेषु प्रतीयत एव वाक्यार्थः । न चात्र व्यञ्जकत्ववादिनापि वाक्यार्थत्वं नेप्यते तात्पर्यादन्यत्वाद्धनेः । तत्र स्वार्थस्य द्वितीयकक्षायामवि- श्रान्तस्य तृतीयकक्षाभावात् । सैव निषेधकक्षा तत्र द्वितीयकक्षाविधौ कि- याकारकसंसर्गानुपपत्तेः । प्रकरणाल्पितरि वक्तरि पुत्रस्य विषभक्षणनियो. गाभायात् । रसवद्वाक्येषु च विभावप्रतिपत्तिलक्षणद्वितीयकक्षायां रसानव- गमात् । तदुक्तम्- 'अप्रतिष्ठमविश्रान्तं स्वार्थे यत्परतामिदम् । वाक्यं विगाहते तत्र न्याय्या तत्परतास्य सा ॥ यत्र तु स्वार्थविश्रान्तं प्रतिष्ठां तावदागतम् । तत्प्रसर्पति तत्र स्यात्सर्वत्र ध्वनिना स्थितिः ।।' इत्येवं सर्वत्र रसानां व्यङचत्वमेव । वस्त्वलंकारयोस्त क्वचिदाच्यत्व क्वचिब्यङ्गयत्वम् । तत्रापि यत्र व्यङ्गयस्य प्राधान्येन प्रतिपत्तिस्तत्रैव ध्वनिः, अन्यत्र गुणीभूतव्यङ्गयत्वम् । तदुक्तम्--- 'यत्रार्थः शब्दो वा यमर्थमुपसर्जनीकृतस्वार्थो । व्यक्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ।। प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः ॥" यथा--'उपोढरागेण' इत्यादि । तस्य च ध्वनर्विवक्षितवाच्याविवक्षि- तवाच्यत्वेन द्वैविध्यम् । अविवक्षितवाच्योऽप्यत्यन्ततिरस्कृतस्वार्थोऽर्थान्तरसं- क्रमितवाच्यश्चेति द्विधा । विवक्षितवाच्यश्च अमंलक्षिकमः क्रमद्योत्यश्चेति द्विविधः । तत्र रसादीनामसंलक्ष्यक्रमे ध्वनित्वं प्राधान्यप्रतीतो सत्यामङ्गत्वे- न प्रतीतो रसपदलंकार इति ।