पृष्ठम्:दशरूपकम्.pdf/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० दशरूपके अत्रोच्यते- वाच्या प्रकरणादिभ्यो बुद्धिस्था वा यथा क्रिया। वाक्यार्थः कारकैर्युक्ता स्थायी भावस्तथेतरैः ॥ ३७॥ यथा लौकिकवाक्येषु श्रूयमाणक्रियेषु 'गामभ्याज-' इत्यादिष्वश्रूयमाण- क्रियेषु च 'द्वार द्वारम्' इत्यादिषु स्वशब्दोपादानात्प्रकरणादिवशाइद्धिसं. निवेशिनी क्रियैव कारकोपचिता वाक्यार्थस्तथा कान्येप्वपि स्वशब्दोपा- दानात्कचित् 'प्रीत्यै नवोढा प्रिया' इत्येवमादौ, क्वचिच्च प्रकरणादिवशास्त्रि- यताविहितविभावाद्यविनाभावाद्वा साक्षाद्भावकचेतसि विपरिवर्तमानो रत्यादिः स्थायी स्वस्वविभावानुभावव्यभिचारिभिस्तत्तच्छब्दोपनीतैः संस्कारपरम्परया परं प्रौढिमानीयमानो रत्यादिवाक्यार्थः । न चापदार्थस्य वाक्यार्थत्वं नास्तीति वाच्यम् । कार्यपर्यवसायित्वात्तात्पर्यशक्तेः । तथाहि पौरुषेयमपौरुषेयं वाक्यं सर्व कार्यपरम् । अतत्परत्वेऽनुपादेयत्वादुन्मत्तादिवाक्यवत्काव्यशब्दानां चा- न्वयव्यतिरेकाम्यां निरतिशयसुखास्वादव्यतिरकेण प्रतिपाद्यप्रतिपादकयोः प्र- वृत्तिविषययोः प्रयोजनान्तरानुपलब्धेः स्वानन्दोद्भुतिरेव कार्यत्वेनावधार्यते । तदुभूतिनिमित्तत्वं च विभावादिसंसृष्टस्य स्थायिन एवावगम्यते । अतो वास्य- स्याभिधानशक्तिस्तेन तेन रसेनाकृष्यमाणा तत्तत्स्वार्थापेक्षितावान्तरविभावा- दिप्रतिपादनद्वारा स्वपर्यवसायितामानीयते । तत्र विभावादयः पदार्थस्थानीया. स्तत्संसृष्टो रत्यादिर्वाक्यार्थः । तदेतत्काव्यवाक्यम् । यदीयं ताविमौ पदा- र्थवाक्यार्थौ । न चैवं सति गीतादिवत्सुखजनकत्वेऽपि वाच्यवाचकमावानु- पयोगः । विशिष्टविभावादिसामग्रीविदुषामेव तथाविधरत्यादिभावनावतामेव स्वादोद्भुतेस्तदनेनातिप्रसङ्गोऽपि निरस्तः । ईदृशि च वाक्यार्थनिरूपणे परि- कल्पिताभिधादिशक्तिवशेनैव समस्तवाक्यार्थावगतेः शक्त्यन्तरपरिकल्पनं प्रयासः । यथावीचाम काव्यनिर्णये- 'तात्पर्यानतिरेकाच्च व्यञ्जकत्वस्य न ध्वनिः । किमुक्तं स्यादश्रुतार्थतात्पर्येऽन्योक्तिरूपिणि ।। विषं भक्षय पूर्वो यश्चैवं परसुतादिषु । प्रसह्यते प्रधानत्वाद्धनित्वं केन वार्यते ।। धनिश्चेत्स्वार्थविश्रान्तं वाक्यमर्थान्तराश्रयम् । तत्परत्वं त्वविधान्तौ तन्न विश्रान्त्यसंभवात् ।।