पृष्ठम्:दशरूपकम्.pdf/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः प्रकाशः । एतावत्येव विश्रान्तिस्तात्पर्यस्येति किं कृतम् । यावत्कार्यप्रसारित्वात्तात्पर्य न तुलाधतम् ॥ भ्रम धार्मिक विश्नब्धमिति भ्रमिकृतास्पदे । निावृत्ति कथं वाक्यं निषेधमुपसर्पति ।। प्रतिपाद्यस्य विश्रान्तिरपेक्षापूरणाद्यदि । वक्तर्विवक्षितप्राप्तेरविश्रान्तिर्न वा कथम् ॥ पौरुषेयस्य वाक्यस्य विवक्षा परतन्त्रता । वऋभिप्रेततात्पर्यमतः काव्यस्य युज्यते ॥ इति । अतो न रसादीनां काव्येन सह व्यङ्गयव्यञ्जकभावः। किं तर्हि भाव्यभा- वकसंबन्धः काव्यं हि भावकम् । भाव्या रसादयः । ते हि स्वतो भवन्त एव भावकेषु विशिष्टविभावादिमता काव्येन भाव्यन्ते न चान्यत्र शब्दा- न्तरेषु भाव्यभावकलक्षणसंबन्धाभावात्काव्यशब्देष्वपि तथा भाव्यमिति वा- व्यम् । भावनाक्रियावादिभिस्तथाङ्गीकृतत्वात् । किंच मा चान्यत्र तथा- स्त्वन्वयव्यतिरेकाम्यामिह तथावगमात् । तदुक्तम्-- 'भावाभिनयसंबन्धान्भावयन्ति रसानिमान् । यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥' इति । कथं पुनरगृहीतसंबन्धेभ्यः पदेभ्यः स्थाय्यादिप्रतिपत्तिरिति चेलोके तथाविधचेष्टायुक्तस्त्रीपुंसादिषु रत्याद्यविनाभावदर्शनादिहापि तथोपनिबन्धे सति रत्याद्यविनाभूतचेष्टादिप्रतिपादकशब्दश्रवणादभिधेया विनाभावेन ला- क्षणिकी रत्यादिप्रतीतिः । यथा च काव्यार्थस्य रसभावकत्वं तथाग्रे वक्ष्यामः । रसः स एव स्वायत्वादसिकस्यैव वर्तनात् । नानुकार्यस्य वृत्तत्वाकाव्यस्यातत्परत्वतः ॥ ३८॥ द्रष्टुः प्रतीतिवी डेयारागद्वेषप्रसङ्गतः। लौकिकस्य स्वरमणीसंयुक्तस्येव दर्शनात् ॥ ३९ ॥ काव्यार्थोपप्लावितो रसिकवर्ती रत्यादिः स्थायीभावः स इति प्रतिनि- दिश्यते । स च खाद्यतां निर्भरानन्दसंविदात्मतामापाद्यमानो रसो रसिक- वर्तीति वर्तमानत्वान्नानुकायरामादिवर्ती वृत्तत्वात्तस्य । अथ शब्दोपहित- रूपत्वेनावर्तमानस्यापि वर्तमानववभासनमिष्यत एव । तथापि तदवभास- द. ११