पृष्ठम्:दशरूपकम्.pdf/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ - दशरूपके स्यास्मदादिभिरनुभूयमानत्वादसत्समतैकास्वादं प्रति विभावत्वेन तु रामा- देर्वर्तमानवदवभासनमिष्यत एव । किंच न काव्यं रामादीनां रसोपजननाय कविभिः प्रवर्त्यते । अपि तु सहृदयानानन्दयितुम् । स च समस्तभावक- स्वसंवेद्य एव । यदि चानुकार्यस्य रामादेः शृङ्गारः स्यात्ततो नाटकादौ त- दर्शने लौकिक इव नायके शृङ्गारिणि स्वकान्तासंयुक्ते दृश्यमाने शृङ्गार- वानयमिति प्रेक्षकाणां प्रतीतिमात्रं भवेन्न रसानां स्वादः सत्पुरुषाणां च लज्जेतरेषां त्वसूयानुरागापहारेच्छादयः प्रसज्येरन् । एवं च सति रसा- दीनां व्यङ्गचत्वमपास्तम् । अन्यतो लब्धसत्ताकं वस्त्वन्येनापि व्यज्यते । प्रदीपेनेव घटादि । न तु तदानीमेवाभिव्यञ्जकत्वाभिमतैरापाद्य स्वभावम् । भाव्यन्ते च विभावादिभिः प्रेक्षकेषु रसा इत्यावेदितमेव । ननु च सामाजिकाश्रयेषु रसेपु को विभावः । कथं च सीतादीनां त्र देवीनां विभावत्वेनाविरोध उच्यते । धीरोदात्ताधवस्थानां रामादिः प्रतिपादकः। विभावयति रत्यादीन्स्वदन्ते रसिकस्य ते ॥ ४०॥ न हि कवयो योगिन इव ध्यानचक्षुषा ध्यात्वा प्रातिस्विकी रामादी- नामवस्या इतिहासवदुपनिवनन्ति । किं तर्हि सर्वलोकमाधारणाः खोत्प्रे- क्षाकृतसन्निधयो धीरोदात्ताद्यवस्थाः क्वचिदाश्रयमात्रदायिन्यो दधति । ता एव च परित्यक्तविशेपा रसहेतवः ।। तत्र सीतादिशब्दाः परित्यक्तजनकतनयादिविशेषाः स्त्रीमात्रवाचिनः किमिवानिष्टं कुर्युः । किमर्थं तर्युपादीयन्त इति चेदुच्यते-- क्रीडतां मृण्मयैर्यवालानां द्विरदादिभिः ॥ ४१ ॥ स्वोत्साहः स्वदते तद्वच्छ्रोतॄणामर्जुनादिभिः । एतदुक्तं भवति । नात्र लौकिकशृङ्गारादिवल्यादिविभावादीनामुपं. योगः । किं तर्हि प्रतिदिनप्रकारेण लौकिकरसविलक्षणत्वं नाट्यरसानाम् । यदाह---'अष्टौ नाट्यरसाः स्मृताः' इति ।। काव्यार्थभावनास्वादो नर्तकस्य न वार्यते ॥ ४२ ॥ नर्तकोऽपि न लौकिकरसेन रसवान्भवति । तदानीं भोग्यत्वेन स्वमहि- लादेरग्रहणात्कायार्थभावनया न्यम्मदादिव काव्यग्माम्पादोऽस्यापि न वार्यते ।