पृष्ठम्:दशरूपकम्.pdf/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके ननु शान्तरसस्यानभिधेयत्वाद्यद्यपि नाट्येऽनुप्रवेशो नास्ति तथापि सूक्ष्मातीतादिवस्तूनां सर्वेषामपि शब्दप्रतिपाद्यताया विद्यमानत्वात्काव्यवि- षयत्वं न निवार्यते । अतस्तदुच्यते- शमप्रकर्षों निर्वाच्यो मुदितादेस्तदात्मता ॥ ४५ ॥ शान्तो हि यदि तावत् 'न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छा। रसस्तु शान्तः कथितो मुनीन्द्रैः सर्वेषु भावेषु शमप्रधानः ।। इत्येवंलक्षणः, तदा तस्य मोक्षावस्थायामेवात्मस्वरूपापत्तिलक्षणायां प्रादुर्भा- वात्तस्य च स्वरूपेणानिर्वचनीयता । तथाहि श्रुतिरपि स एष नेति नेत्य- न्यापोहरूपेणाह न च तथाभूतस्य शान्तरसस्य सहृदयाः स्वादयितारः स. न्स्यथ तदुपायभूतो मुदितामैत्रीकरुणोपेक्षादिलक्षणरतस्य च विकाशवि. स्तारक्षोभविक्षेपरूपतैवेति । तदुत्त्यैव शान्तरसास्वादो निरूपितः । इदानीं विभावादिविषयावान्तरकाव्यन्यापारप्रदर्शनपूर्वकः प्रकरणेनोप- संहारः प्रतिपाद्यते-- पदार्थैरिन्दुनिर्वेदरोमाञ्चादिस्वरूपकैः। काव्याद्विभावसंचार्यनुभावप्रख्यतां गतः ।। ४६ ॥ भावितः स्वदते स्थायी रसः स परिकीर्तितः। अतिशयोक्तिरूपकाव्यव्यापाराहितविशेषैश्चन्द्राद्यैरुद्दीपनविभावैः प्रमदा- प्रभृतिभिरालम्बनविभावनिर्वेदादिभिव्यभिचारिभावै रोमाञ्चाश्रुभ्रूक्षेपकटाक्षायै- रनुमावैरवान्तरव्यापारतया पदार्थीभूतैर्वाक्यार्थः स्थायीभावो विभादितो भावरूपतामानीतः स्वदते स रस इति प्राक्प्रकरणे तात्पर्यम् ।। विशेषलक्षणान्युच्यन्ते----तत्राचार्येण स्थायिनां रत्यादीनां शृङ्गारादीनां च पृथालक्षणानि विभायादिप्रतिपादनेनोदितानि । अत्र तु- लक्षणैक्यं विभावैक्यादभेदाद्रसभावयोः॥ ४७ ॥ क्रियत इति वाक्यशेषः । तत्र तावच्छृङ्गार:--- रम्यदेशकलाकालवेषभोगादिसेवनैः । प्रमोदात्मा रतिः सैव नोरन्योन्यरक्तयोः। प्रहृष्यमाणा शृङ्गारो मधुराङ्गविचेष्टितैः ॥४८॥