पृष्ठम्:दशरूपकम्.pdf/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः प्रकाशः। १२५ इत्थमुपनिबध्यमानं काव्यं शृङ्गाराखादाय प्रभवतीति । कन्युपदेशप- रमेतत् । तत्र देशविभावो यथोत्तररामचरिते---- 'स्मरसि सुतनु तस्मिन्पर्वते लक्ष्मणेन प्रतिविहितसपर्यामुस्थयोस्तान्यहानि । स्मरसि सरसतीरां तत्र गोदावरी वा स्मरसि च तदुपान्तेष्वावयोर्वर्तनानि ।' कलाविमावो यथा-- 'हस्तरन्तर्निहितवचनैः सूचितः सम्यगर्थः पादन्यासलंयमुपगतस्तन्मयत्वं रसेषु । शाखायोनिर्मदुरभिनयः षडिकल्पोऽनुवृत्तै- ___ भावे भावे नुदति विषयानरागबन्धः स एव ।' यथा च---- 'व्यक्तिय॑ञ्जनधातुना दशविधेनाप्यत्र लब्धामुना विस्पष्टो द्रुतमध्यलम्बितपरिच्छिन्नस्त्रिधाय लयः । गोपुच्छप्रमुखाः क्रमेण गतयस्तिस्रोऽपि संपादिता. स्तत्त्वौधानमताश्च वाद्यविधयः सम्यक्त्रयो दर्शिताः ।। कालविभावो यथा कुमारसंभवे- 'असूत सद्यः कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपल्लवानि । पादेन चापैक्षत सुन्दरीणां संपर्कमासिञ्जितनूपुरेण ॥' इत्युपक्रमे---- 'मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां खामनुवर्तमानः । शृङ्गेण संस्पर्शनिमीलिताक्षी मृगीमकण्डूयत कृष्णसारः ॥ वेषविभावो यथा तत्रैव-- 'अशोकनिर्भसितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम् । मुक्ताकलापीकृतसिन्दुवारं वसन्तपुष्पाभरणं वहन्ति ॥' उपभोगविमाको यथा- 'चक्षुर्लप्तमपीकणं कवलितस्ताम्बूलरागोऽधरे विश्रान्ता कबरी कपोलफलके लुसेव गानद्युतिः ।