पृष्ठम्:दशरूपकम्.pdf/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः प्रकाशः। १२७ एकोनपञ्चाशदमी हि भावा । युक्त्या निबद्धाः परिपोषयन्ति । आलस्यमौग्यं मरणं जुगुप्सा ___ तस्याश्रयाद्वैतविरुद्धमिष्टम् ॥ ४९ ॥ त्रयस्त्रिंशद्वयभिचारिणश्चाष्टौ स्थायिन अष्टौ सात्त्विकाश्चेत्येकोनपञ्चाशत् । युक्ताङ्गत्वेनोपनिवध्यमानाः शृङ्गारं संपादयन्त्यालस्यौग्यजुगुप्सामरणादी- न्येकालम्बनविभावाश्रयत्वेन मानाङ्गत्वेन चोपनिवध्यमानानि विरुध्यन्ते । प्रकारान्तरेण चाविरोधः नामनिपाति एव । विभागस्तु- ___ अयोगो विप्रयोगश्च संभोगश्चेति स विधा । अयोगविप्रयोगविशेषत्वाद्विप्रलम्भस्यैतत्सामान्याभिधायित्वेन विप्रलम्भ शब्द उपचरितवृत्तिर्मा भूदिति न प्रयुक्तः । तथाहि । दत्त्वा संकेतम- प्राप्तेऽवध्यतिक्रमे साध्येन नायिकान्तरानुसरणाच विप्रलम्भशब्दस्य मुख्य- प्रयोगो वचनार्थत्वात् । तत्रायोगोऽनुरागेऽपि नवयोरेकचित्तयोः ॥ ५० ॥ पारतन्त्र्येण देवाद्वा विप्रकर्षादसंगमः। योगोऽन्योन्यस्वीकारस्तदभावस्त्वयोगः । पारतन्त्र्येण विप्रकर्षादेवपि- त्राद्यायत्तत्वात्सागरिकामालत्योर्वत्सराजमाधवाभ्यामिव दैवागौरीशिवयोरि- वासमागमोऽयोगः। दशावस्थः स तत्रादावभिलाषोऽथ चिन्तनम् ॥ ५१॥ स्मृतिगुणकथोद्वेगमलापोन्मादसंज्वराः। जडता मरणं चेति दुरवस्थं यथोत्तरम् ॥ ५२ ॥ अभिलाषः स्पृहा तत्र कान्ते सर्वाङ्गसुन्दरे ।। दृष्टे श्रुते वा तत्रापि विस्मयानन्दसाध्वसाः ॥५३॥ साक्षात्मतिकृतिखपच्छायामाया दर्शनम् । श्रुतिव्योजात्सखीगीतमागधादिगुणस्तुते ॥ ५४॥ १. 'काम्ये' इति पाठः.