पृष्ठम्:दशरूपकम्.pdf/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ दशरूपके अभिलाषो यथा शाकुन्तले- 'असंशयं क्षत्रपरिग्रहक्षमा यदायमस्यामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ।।' विस्मयो यथा- 'स्तनावालोक्य तन्वङ्गयाः शिरः कम्पयते युवा । तयोरन्तरनिर्मग्नां दृष्टिमुत्पाटयन्निव ॥' आनन्दो यथा विद्धशालभञ्जिकायाम्- 'सुधाबद्धग्रासैरुपवनचकोरैः कवलितां किरज्योत्स्नामच्छां लवलिफलपाकप्रणयिनीम् । उपमाकाराग्रं प्रहिणु नयने तकेय मना- गनाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥' साध्वसं यथा कुमारसंभवे- 'तं वीक्ष्य वेपथुमती सरसायष्टि- निक्षेपणाय पदमुद्भूतमुद्वहन्ती । मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ ॥ यथा वा- 'व्याहृता प्रतिवचो न संदधे गन्तुमैच्छदवलम्बितांशुका । सेवते स्म सयनं परामुखी सा तथापि रतये पिनाकिनः ॥' सानुभावविभावास्तु चिन्ताधाः पूर्वदर्शिताः। गुणकीतेनं तु स्पष्टत्वान्न व्याख्यातम् । दशावस्थत्वमाचार्य: पायो वृत्त्या निदर्शितम् ॥ ५५ ॥ महाकविप्रवन्धेषु दृश्यते तदनन्तता। दिभात्रं तु- दृष्टे श्रुतेऽभिलाषाच किं नौत्सुक्यं प्रजायते ॥५६॥ अमाप्तौ किन निर्वेदो ग्लानिः किं नातिचिन्तनात् । शेषं प्रच्छन्नकामितादि कामसूत्रादवगन्तव्यम् । अथ विप्रयोगः- विपयोगस्तु विश्लेषो रूटविसम्भयोद्विधा ॥ ५७ ॥ १. 'प्रयोग इति पाठा.