पृष्ठम्:दशरूपकम्.pdf/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः प्रकाशः । आगच्छदागतयोस्तु प्रवासाभावादेष्यत्प्रवासस्य च गतप्रवासाविशेषा- त्रैविध्यमेव युक्तम् । द्वितीयः सहसोत्पन्नो दिव्यमानुषविप्लवात् । उत्पातनिर्वातवातादिजन्यविप्लवात्परचक्रादिजन्यविप्लवाद्वाबुद्धिपूर्वकत्वा- देकरूप एव संभ्रमजः प्रवासः । यथोर्वशीपुरूरवसोर्विक्रमोर्वश्याम् । यथा च कपालकुण्डलापहृतायां मालत्यां मालतीमाधवयोः । खरूपान्यत्वकरणाच्छापजः सन्निधावपि ॥६६॥ यथा कादम्बयाँ वैशंपायनस्येति । मृते त्वेकत्र यत्रान्यः प्रलपेच्छोक एव सः। च्याश्रयत्वान्न शृङ्गारः प्रत्यापन्ने तु नेतरः ॥ ६७ ।। यथेन्दुमतीमरणादजस्य करुण एव रघुवंशे । कादम्बर्या तु प्रथमं क- रुण आकाशसरस्वतीवचनादूर्व प्रवासशृङ्गार एवेति । तत्र नायिका प्रति नियमः-- प्रणयायोगयोरुत्का प्रवासे प्रोपितप्रिया । कलहान्तरितेायां विपलब्धा च खण्डिता ॥ ६८ ॥ अथ संभोग:- अनुकूलौ निषेयेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्शनादीनि स संभोगो मुदान्वितः ॥ ६९ ॥ यथोत्तररामचरिते --- 'किमपि किमपि मन्दं मन्दमासत्तियोगा- दविरलितकपोलं जल्पतोरक्रमेण । सपुलकपरिरम्भव्यापृतैकैकदोष्णो- रविदितगतयामा रात्रिरेव न्यरंसीत् ॥' अथवा । 'प्रिये, किमेतत् । विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः । १. 'निराधयात्' इति पाठः.