पृष्ठम्:दशरूपकम्.pdf/१५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो विकारः कोऽप्यन्त डयति च तापं च कुरुते ॥' यथा च ममैव--- 'लावण्यामृतवर्षिणि प्रतिदिशं कृष्णागरुश्यामले वर्षाणामिव ते पयोधरभरे तन्वङ्गि दूरोन्नते । नासावंशमनोज्ञकेतकतनुर्भूपत्रगर्भोल्लस- त्पुष्पश्रीस्तिलकः सहेलमलकै हॅरिवापीयते ।' चेष्टास्तत्र प्रवर्तन्ते लीलाद्या दश योपिताम् । दाक्षिण्यमार्दवप्रेम्णामनुरूपाः मियं प्रति ॥ ७० ॥ ताश्च सोदाहृतयो नायकप्रकाशे दर्शिताः । रमयेच्चाटुकृत्कान्तः कलाक्रीडादिभिश्च ताम् । न ग्राम्यमाचत्किचिनर्मभ्रंशकरं न च ॥ ७१ ॥ ग्राम्यः संभोगो रङ्गे निषिद्धोऽपि काव्येऽपि न कर्तव्य इति पुनर्निषि- ध्यते । यथा रत्नावल्याम्-~-- 'स्पृष्टस्त्वयैष दयिते स्मरपूजाव्यापृतेन हस्तेन । उद्भिन्नापरमृदुतरकिसलय इव लक्ष्यतेऽशोकः ॥' इत्यादि । नायकनायिकाकैशिकीवृत्तिनाटकनाटिकालक्षणायुक्तं कविपरम्प- रावगत स्वयमौचित्यसंभावनानुगुण्येनोत्प्रेक्षितं चानुसंदधानः सुकविः शृङ्गार- मुपनिवनीयात् । अथ वीर:---- वीरः प्रतापविनयाध्यवसायसव- मोहाविषादनयविस्मयविक्रमायैः । उत्साहभूः स च दयारणदानयोगा- ब्रेधा किलात्र मतिगर्वधृतिमहर्षाः ।। ७२ ।। प्रतापविनयादिभिर्विभावितः करुणायुद्धदानाद्यैरनुभावितो गर्वधृतिहर्षा- मर्षस्मृतिमतिवितर्कप्रभृतिभिर्भावित उत्साहः स्थायी स्वदते भावकमनोवि- स्तारानन्दाय प्रभवतीत्येष वीरः । तत्र दयावीरोः यथा नागानन्दे जीमूत-