पृष्ठम्:दशरूपकम्.pdf/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके पीतोच्छदितरक्तकर्दमधनप्राग्भारधोरोल्लस- ब्यालोलस्तनभारभैरववपुर्वन्धोद्धतं धावति ।।' रम्येष्वपि रमणीयजघनस्तनादिषु वैराग्याद्धणाशुद्धो बीभत्सः । यथा--- 'लालां वासवं वेत्ति मामपिण्डौ पयोधरौ। मांमाम्बिकट जघनं जनः कामग्रहातुरः ॥' न चाय शान्त एव विरक्तो यतो बीभत्समानो विरज्यते । अथ रौद्रः- क्रोधी मत्सरवैरिचकृतमयैः पोषोऽस्य रौद्रोऽनुजः क्षोभः स्वाधरर्दशकम्पभ्रुकुटिस्वेदास्यरागेयुतः । शस्त्रोल्लासविकथनांसधरणीयातपतिज्ञाग्रहै. रत्रामपंमदी स्मृतिश्चपलताम्यौग्यवेगादयः ॥ ७४ । मात्सर्यविभावो रौद्रो यथा वीरचरिते- 'त्वं ब्रह्मवर्चसधरो यदि वर्तमानो यद्वा स्वनातिसमयेन धनुर्धरः म्याः । उग्रेण भोस्तव तपस्तपसा दहामि पक्षान्तरस्य सदृशं परशुः करोति ।' वैरिवैकृतादिर्यथा वेणीमहारे-- 'लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहत्य । आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः ।। इत्येवमादिविभावैः प्रस्वेदरक्तवदननयनाद्यनुभावैरमर्यादिव्यभिचारिभिः को- धपरिपोपो रौद्रः । परशुरामभीमसेनदुर्योधनादिव्यवहारेषु वीरचरित-वेणी- संहारादेरनुगन्तव्यः । अथ हास्यः-- विकृताकृतिवाग्वेषैरात्मनोऽथ परस्य वा । हासः स्यात्परिपोषोऽस्य हास्यस्लिमकृतिः स्मृतः ॥ ७ ॥