पृष्ठम्:दशरूपकम्.pdf/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः प्रकाशः । मा-मम्माविकतनेषभापादीन्परम्पान्या विभाकानवलम्बमानो हासस्त- त्परिपोषात्मा हास्यो रसो ब्यधिष्ठानो भवति । स चोत्तममध्यमाधमप्रकृति- भेदात्षड्डिधः । आत्मस्थो यथा रावणः- 'जातं मे परुषेण भस्मरजसा तचन्दनोद्धलनं हारो वक्षसि यज्ञसूत्रमुचितं क्लिष्टा जटाः कुन्तलाः । रुद्राक्षैः सकलैः सरत्नवलयं चित्रांशुकं वल्कलं सीतालोचनहारि कल्पितमहो रम्यं वपुः कामिनः ॥' परस्थो यथा- 'भिक्षो मांसनिषेवणं प्रकुरुषे किं तेन मद्यं विना किं ते मद्यमपि प्रियं प्रियमहो वाराङ्गनाभिः सह । वेश्या द्रव्यरुचिः कुतस्तव धनं द्यूतेन चौर्येण वा चौर्यचूतपरिग्रहोऽपि भवतो दासस्य कान्या गतिः ॥' स्मितमिह विकासिनयनं किंचिल्लक्ष्यद्विजं तु हसितं स्यात् । मधुरस्वरं विहसितं सशिर कम्पमिदमुपहसितम् ।। ७६ ॥ अपहसितं सास्राक्षं विक्षिप्ताङ्गं भवत्यतिहसितम् । द्वे द्वे हसिते चैषां ज्येष्ठे मध्येऽधमे क्रमशः ।। ७७ ॥ उत्तमम्य स्वपरस्थविकारदर्शनास्मितहसिते मध्यमस्य विहसितोपह- सितेऽधमस्यापहसितातिहसिते । उदाहृतयः स्वयमुत्प्रेक्ष्याः । व्यभिचारि- पश्चास्य---- निद्रालस्यश्रमग्लानिमूर्जाश्च सहचारिणः । अथाद्भुतः- अतिलोकैः पदार्थैः स्याद्विस्मयात्मा रसोऽद्भुतः ॥ ७८ ॥ कर्मास्य साधुवादाश्रुवेपथुखेदगद्गदाः। हर्षावेगधृतिमाया भवन्ति व्यभिचारिणः ॥ ७९ ॥ लोकसीमातिवृत्तपदार्थवर्णनादिविभावितः साधुवादानुभावपरिपुष्टो वि. स्मयः स्थायिभावो हर्षावेगादिभावितो रसोऽद्भुतः । यथा- १. 'बमथु इति पाठः. - -