पृष्ठम्:दशरूपकम्.pdf/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८

पाशरूपके -

.. 'दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्धत- __ष्टङ्कारध्वनिरायेबालचरितप्रस्तावनाडिण्डिमः । द्राक्पर्याप्तकपालसंपुटमिलट्रह्माण्डमाण्डोदर- भ्राम्यत्पिण्डितचण्डिमा कथमसौ नाद्यापि विश्राम्यति ॥' इत्यादि। अथ भयानक:- विकृतस्वरसत्त्वादेर्भयभावो भयानकः । सर्वाङ्गवेपथुखेदशोषवैचित्त्यलक्षणः । दैन्यसंभ्रमसंमोहत्रासादिस्तत्सहोदरः ।। ८० ।। रौद्रशब्दश्रवणाद्रौद्रसत्त्वदर्शनाच्च भयस्थायिभावप्रभवो भयानको रसः । तत्र सर्वाङ्गवेपथुप्रभृतयोऽनुभावाः । दैन्यादयस्तु व्यभिचारिणः । भयानको यथा प्रागुदाहृतः- 'शस्त्रोतत्समुत्सृज्य कुञ्जीभूय शनैः शनैः । यथायथागतेनैव यदि शक्नोषि गम्यताम् ॥' यथा च रत्नावल्याम्--'नष्टं वर्षवरैः' इत्यादि । यथा च-- 'स्वगेहात्पन्थानं तत उपचितं काननमथो गिरि तस्मात्सान्द्रद्रुमगहनमस्मादपि गुहाम् । तदन्वङ्गान्यङ्गैरभिनिविशमानो न गणय- खरातिः कालीये तव विजययात्राचकितधीः ॥' अथ करुणः- इष्टनाशादनिष्टॉप्तौ शोकात्मा करुणोऽनु तम् । निःश्वासोच्छ्वासरुदितस्तम्भपलपितादयः ॥ ८॥ .खापापस्मारदेन्याधिमरणालस्यसंभ्रमाः। विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः ।। ८२ ॥ इष्टस्य बन्धुप्रभृतेविनाशादनिष्टस्य तु बन्धनादेः प्राप्त्या शोकप्रकर्षनः १. 'वैवर्ण्य' इति पाठः. २. 'आप्नेः' इति पाठः.