पृष्ठम्:दशरूपकम्.pdf/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः प्रकाशः। करुणः । तमन्विति तदनुभावनिःश्वासादिकथनम् । व्यभिचारिणश्च स्वापा- पस्मारादयः । इष्टनाशात्करुणो यथा कुमारसंभवे- 'अयि जीवितनाथ जीवमीत्यभिधायोविनया तया पुरः । दहशे पुरुषाकृति क्षितौ हरकोपानलभम्म केवलम् ।। इत्यादि रतिप्रतापः । अनिष्टावाप्तेः सागरिकाया बन्धनाद्यथा रत्नावल्याम् । प्रीतिभत्त्यादयो भावा मृगयाक्षादयो रसाः। हर्षोत्साहादिषु स्पष्टमन्तर्भावान कीर्तिताः ॥ ८३ ।। स्पष्टम् । पत्रिंशद्भूषणादीनि सामादीन्येकविंशतिः। लक्ष्यसंध्यन्तराङ्गानि सालंकारेषु तेषु च ।। ८४ ॥ "विभूषणं चाक्षरसंहतिश्च शोभाभिमानौ गुणकीर्तनं च' इत्येवमादीनि पत्रिंशत्काव्यलक्षणानि । 'साम भेदः प्रदानं च' इत्येवमादीनि संध्यन्तराण्ये- कविंशतिरु मादिष्विवालंकारेषु हर्पोत्साहादिन्न भवान्न पृथगुक्तानि । रम्यं जुगुप्सितमुदारमथापि नीच- मुग्रं प्रसादि गहनं विकृतं च वस्तु । यद्वाप्यवस्तु कविभावकभाव्यमानं तन्नास्ति यन्न रसभावमुपैति लोके ॥ ८५ ॥ विष्णोः सुतेनापि धनंजयेन विद्वन्मनोरागनिबन्धहेतुः । आविष्कृतं मुञ्जमहीशगोष्ठीदग्थ्यभाजा दशरूपमेतत् ।। ८६ ॥ इति श्रीविष्णुसूनोर्धनिकस्य कृतौ दशरूपावलोके रसविचारो नाम चतुर्थः प्रकाशः समाप्तः । समापश्चायं ग्रन्थः। १. लक्ष्मसंध्यन्तराख्यानि' इति पाठ:. २. 'भावात्' इति पाठः.