यं नाट्यवेदं वेदेभ्यः सारमादाय ब्रह्मा कृतवान्, यत्संबद्धमभिनयं भरतश्चकार
करणाङ्गहारानकरोत्, हरस्ताण्डवमुद्धतं लास्यं सुकुमारं नृत्तं पार्वती
कृतवती, तस्य सामस्त्येन लक्षणं कर्तुं कः शक्तः । तदेकदेशस्य तु
दशरूपस्य संक्षेपः क्रियत इत्यर्थः ।।
विषयैक्यप्रसक्तम् पौनरुक्त्यं परिहरति---
व्याकीर्णे भन्दबुद्धीनां जायते मतिविभ्रमः ।। |
व्याकीर्णे विक्षिप्ते विस्तीर्णे च रसशास्त्रे मन्दबुद्धीनां पुंसां मतिमोहो भवति, तेन तस्य नाट्यवेदस्यार्थस्तत्पदैरेव संक्षिप्य ऋजुवृत्त्या क्रियत इति ।।
इदं प्रकरणम् दशरूपज्ञानफलम् । दशरूपं किम्फलमित्याह---
आनन्दनियन्दिषु रूपकेषु व्युत्पत्तिमात्रं फलमल्पवुद्धिः । |
तत्र केचित् ‘धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । करोति कीर्तिम् प्रीतिम् च साधुकान्यनिषेवणम् ।।' इत्यादिना त्रिवर्गादिव्युत्पत्तिम् काव्यफलत्वेनेच्छन्ति तन्निरासेन स्वसंवेद्यः परमानन्दरूपो रसास्वादो दशरूपाणां फलम्, न पुनरितिहासादिवत्रिवर्गादिव्युत्पत्तिमात्रमिति दर्शितम् । नम इति सोल्लुण्ठम् ।।
‘नाट्यानां लक्षणं संक्षिपामि' इत्युक्तम् । किं पुनस्तन्नाट्यमित्याह---
अवस्थानुकृतिर्नाट्यम् । |
काव्योपनिबद्धधीरोदात्ताद्यवस्थानुकारश्चतुर्विधाभिनयेन तादात्म्यादितिर्नाट्यम् ॥
तदेव नाट्यं दृश्यमानतया रूपमित्युच्यते । नीलादिरूपवत् ।।
रूपकम् तत्समारोपाद् |
नटे रामाद्यवस्थारोपेण वर्तमानत्वाद्रूपकम् । मुखचन्द्रादिवदित्येकस्मिन्नर्थे प्रवर्नमानस्य शब्दत्रयस्य ‘इन्द्रः पुरंदरः शक्रः' इतिवत्प्रवृत्तिनिमित्तभेदो दर्शितः ।।