एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके पयोगं दर्शयति--तञ्च नाटकाद्युपकारकमिति । नृत्यस्य क्वचिदवान्तरपदार्था- भिनयेन नृत्तस्य च शोभाहेतुत्वेन नाटकादावुपयोग इति ।।। अनुकारात्मकत्वेन रूपाणामभेदाकिकृतो भेद इत्याशङ्कयाह-- | वस्तु नेता रसस्तेषां भेदकों वस्तुभेदान्नायकभेदाद्रसभेदादूपाणामन्योन्यं भेद इति ।। वस्तुभेदमाह वस्तु च द्विधा । कथमित्याह-- तत्राधिकारिकं मुख्यमङ्गं प्रासङ्गिकं विदुः ॥ ११ ॥ प्रधानभूतमाधिकारिकम् । यथा रामायण रामसीतावृत्तान्तः । तदङ्गभूतं प्रासङ्गिकम् । यथा तत्रैव विभीषणसुग्रीवादिवृत्तान्त इति ॥ निरुत्याधिकारिकं लक्षयति-- अधिकारः फलस्वाम्यमधिकारी च तत्प्रभुः ।। तनिर्वयमभिव्यापि दृत्तं स्यादाधिकारिकम् ।। १२ ।। फलेन स्वस्वामिसंबन्धोऽधिकारः फलस्वामी चाधिकारी तेनाधिकारेणा- धिकारिणा वा निवृत्तं फलपर्यन्तत नीयमानमितिवृत्तमाधिकारिकम् ।। प्रसिङ्गिक व्याचष्टे---- प्रासङ्गिकं परार्थस्य स्वार्थो यस्य प्रसङ्गतः । यस्येतिवृत्तस्य परप्रयोजनस्य सतस्तत्प्रसङ्गात्स्वप्रयोजनसिद्धिस्तत्प्रासङ्गि- कमितिवृत्तं प्रसङ्गनिवृत्तेः ॥ प्रासङ्गिकमपि पताकाप्रकरीभेदाद्विविधमित्याह-- | सानुबन्धं पताकाख्यं प्रकरी च प्रदेशभाकू ।। १३ ।। दूरं यदनुवर्तते प्रासङ्गिक सा पताका । सुग्रीवादिवृत्तान्तवत् । पताके- वासाधारणनायकचिहृवत्तदुपकारित्वात् । यदल्पं सा प्रकरी । श्रवणादि- वृत्तान्तवत् ॥ पताकाप्रसङ्गेन पताकास्थानकं व्युत्पादयति-- प्रस्तुतागन्तुभावस्य वस्तुनोऽन्योक्तिसूचकम् । पताकास्थानकं तुल्यसंविधानविशेषणम् ॥ १४ ॥ १. 'अतिव्यापि' इति पाङः,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/२७&oldid=200040" इत्यस्माद् प्रतिप्राप्तम्