एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके अवान्तरवीजस्य संज्ञान्तरमाह- अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ॥ १७ ॥ यथा रत्नावल्यामवान्तरप्रयोजनानङ्गपूजापरिसमाप्तौ कथार्थविच्छेदे सत्य- नन्तरकार्यहेतु:--'उदयनस्येन्दोरिवोद्वीक्षते । सागरिका---'श्रुत्वा ।) कहं एसो सो उदयणणरिन्दो जम्स अहं तादेण दिग्णा।' इत्यादि । बिन्दुर्जले तैलबिन्दुवप्रसारित्वात् ।। इदानीं पताकाद्यं प्रसङ्गाद्वयुत्क्रमोक्तं क्रमार्थमुपसंहरन्नाह- वीजबिन्दुपताकाख्यपकरीकाक्षः । अर्धेप्रकृतयः पञ्च ता एताः परिकीर्तिताः ॥१८॥ अर्थप्रकृतयः प्रयोजनमिद्धिहेतवः ॥ अन्यदवस्थापञ्चकमाह - अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः। आरम्भयत्नमात्याशानियताप्तिफलागमाः ।। १० ॥ यथोद्देशं लक्षणमाह - औत्सुक्यमात्रमारम्भः फललामाय भूयसे । इदमहं संपापयामीत्यध्यवसायमानमारम्भ इत्युच्यते । यथा रत्नाव- ल्याम्-... 'प्रारम्भेऽस्मिन्स्वामिनो वृद्धिहेतौ दैवे चेत्यं दत्तहस्तावलम्बे ।' इत्यादिना सचिवायत्तसिद्धेवत्सराजस्य कार्यारम्भो गौगंधरायणमा दर्शितः । अथ प्रयत्न:--- प्रयत्नस्तु तदप्राप्तौ व्यापारोऽनित्वरान्वितः ॥ २०॥ तम्य फलम्याग्राप्तानुपाययोजनादिरूपश्चेष्टाविशेषः प्रयत्नः । यथा रत्ना- कन्यामालेम्याभिलेखनादिवत्सराजसमागमोपायः–'तहावि गस्थि अण्णो दंगणुवाओ ति जहातहा आलिहिअ जथासमीहिअं करिम्पम्।' इत्यादिना प्रतिपादितः ॥ १. कथमेष स उदयननरेन्द्रो यस्याहं तानेन दत्ता।' इनि छाया. २. 'समापि नास्त्यन्यो दर्शनोपाय इनि यथानथालिध्य रथासमर्माहितं करिष्यामि।' इति च्छाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/२९&oldid=217978" इत्यस्माद् प्रतिप्राप्तम्