एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः प्रकाशः। प्राध्याशामाह- उपायापायशङ्काभ्यां प्राप्त्याशा मातिसंभवः । उपायस्यापायशङ्कायाश्च भावादनिर्धारितैकान्ता फलप्राप्तिः प्रात्याशा । यथा रत्नावल्यां तृतीयेऽङ्के वेषपरिवताभिसरणादौ समागमोपाये सति वा- सवदत्तालक्षणापायशङ्कायाः- एवं जदि अआलवादाली विअ आअच्छि भ अण्णदो ण णइस्सदि वासवदत्ता।' इत्यादिना दर्शितत्वादनिर्धारितकान्ता स- मागमप्राप्तिरुक्ता ॥ नियताप्तिमाह-- अपायाभावतः प्राप्तिनियतामिः सुनिश्चिता ॥ २१ ॥ अपायाभावादवधारितैकान्ता फरमामिनियतामिरिति । यथा रत्नाव- ल्याम्-'विदपकः-सागरिका दुकरं जीविम्सदि।' इत्युपक्रम्य किण उपायं चिन्तेसि ।' इत्यनन्तरम् 'राजा—वयम्य, देवीप्रसादनं मुक्त्वा नान्यमत्रोपायं पश्यामि ।' इत्यनन्तराङ्कार्थविन्दुनानेन देवीलक्षणापायम्य प्रसादनेन निवारणान्नियता फलप्राप्तिः सूचिता ॥ फलयोगमाह- समग्रफलसंपत्तिः फलयोगो यथोदितः। यथा रत्नावल्यां रत्नावटीलामचक्रवर्तित्वावाप्तिरिति ।। संधिलक्षणमाह-- अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः ॥२२॥ यथासंख्येन जायन्ते मुखायाः पञ्च संधयः। अर्थप्रकृतीनां पञ्चानां यथासंख्येनावस्थाभिः पञ्चभियोगायथासंख्येनैव वक्ष्यमाणा मुखाद्याः पञ्च संधयो जायन्ते ॥ संधिसामान्यलक्षणमाह- अन्तरैकार्थसंवन्धः संधिरकान्वये सति ।। २३ ॥ एकेन प्रयोजनेनान्वितानां कथांशानामवान्तरैकप्रयोजनसंबन्धः संधिः ।। के पुनस्ते संधयः- मुखप्रतिमुखे गर्भः सावमर्शोपसंहतिः। १. 'पाबं यद्य कालवातालीवागत्यान्यतो न नेण्यति वासवदत्ता।' इति छाया. २. 'सा- गरिका दुम्कर जीविध्यति । इति च्छाया. ३. किं नोपायं चिन्तयसि।' इति च्छाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/३०&oldid=217979" इत्यस्माद् प्रतिप्राप्तम्