एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- दशरूपके यथोदेशं लक्षणमाह- मुखं वीनसमुत्पत्तिर्नानार्थरमसंभवा ॥ २४ ॥ अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् । बीजानामुत्पत्तिरनेकप्रकारप्रयोजनस्य रसस्य च हेतुर्मुखसंधिरिति व्या- ख्येयम् । तेनात्रिवर्गफले प्रहसनादौ रसोत्पत्तिहेतोरेव बीजत्वमिति । अस्य च बीनारम्भार्थयुक्तानि द्वादशाङ्गानि भवन्ति ॥ तान्याह-- उपक्षेपः परिकरः परिन्यासो विलोभनम् ।। २५॥ युक्तिः प्राप्तिः समाधानं विधानं परिभावना । उद्भेदभेदकरणान्यन्वर्थान्यथ लक्षणम् ॥ २६ ॥ एतेषां स्वसंज्ञाव्याख्यातानामपि सुखार्थ लक्षणं क्रियते- बीजन्यास उपक्षेपः यथा रत्नावल्याम्-'(नेपथ्ये ।) द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥ इत्यादिना यौगंधरायणो वत्सराजस्य रत्नावलीप्रामिहेतुभूतमनुकूलदैवं स्वव्यापार बीनत्वेनोपक्षिप्तवानित्युपक्षेपः ॥ परिकरमाह- तद्धाहुल्यं परिक्रिया। ___ यथा तत्रैव-'अन्यथा व सिद्धादेशप्रत्ययप्रार्थितायाः सिंहले .. हितुः समुद्रे प्रवहणभङ्गमग्नोत्थितायाः फलकासादनम्।' इत्यादिना सर्वथा स्पृशन्ति स्वामिनमभ्युदयाः ।" इत्यन्तेन बीजोत्पत्तेरेव बहूकरणारारिकरः ॥ परिन्यासमाह- तनिष्पत्तिः परिन्यासो यथा तत्रैव--- 'प्रारम्भेऽस्मिन्स्वामिनो वृद्धिहेतौ दैवे चेत्थं दत्तहस्तावलम्बे । सिद्धेर्धान्तिर्नास्ति सत्यं तथापि खेच्छाकारी भीत एवास्मि भर्तुः ॥' इत्यनेन यौगंधरायणः खव्यापारदैवयोनिष्पत्तिमुक्तवानिति परिन्यासः ।। १. 'संश्रया' इति पाठः.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/३१&oldid=217980" इत्यस्माद् प्रतिप्राप्तम्