एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः प्रकाशः। विलोभनमाह- गुणाख्यानं विलोभनम् ॥ २७॥ यथा रत्नावल्याम्- "अन्नापाम्नममस्त भामि नमसः पारं प्रयाते रवा- वास्थानी समये समं नृपजनः सायंतने संपतन् । , संप्रत्येष सरोरुहद्युतिमुषः पादास्तवासेवितुं प्रीत्युत्कर्षकृतो दृशामुदयनस्येन्दोरिवोद्वीक्षते ।। इति वैतालिकमुखेन चन्द्रतुल्यवत्सराजगुणवर्णनया सागरिकायाः समाग- महेत्वनुरागबीजानुगुण्येनैव विलोभनाद्विलोभनमिति । यथा च वेणीसंहारे- मन्थायस्तार्णवाग्भःप्तकुहरवलन्मन्दरध्वानधीरः कोणाघानेषु गर्न प्रलगनान्योन्गमघटनाएर. । कृष्णाकोधाग्रदूतः कुरुकुलनिधनोल्पातनिर्यातवातः के नामन्भिहना दप्रनिगमित्रानो दुन्दुभिताडितोऽयम् ॥' इत्यादिना 'यशोदुन्दुभिः।' इत्यन्तेन द्रौपद्या विलोभनाद्विलोभनमिति ।। अथ युक्ति:--- संमधारणमर्थानां युक्तिः यथा रनावल्याम्—'मयापि चैना देवीहस्ते सबहुमानं निक्षिपता युक्त- मेवानुष्ठितम् । कथितं च मया यथा बाभ्रव्यः कञ्चुकी सिंहलेश्वरामात्येन वसु- भूतिना सह कथंकथमपि समुद्रादत्तीर्य कोशलोच्छित्तये गतस्य रुमण्यतो घटितः।' इत्यनेन सागरिकाया अन्तःपुरस्थाया वत्सराजस्य सुरखेन दर्शनादि- प्रयोजनावधारणाद्वाभ्रव्यसिंहलेश्वरामात्ययोः स्वनायकसमागमहेतुप्रयोजन- वेनावधारणाद्युक्तिरिति ।। अथ प्राप्ति:- प्राप्तिः सुखागमः। यथा वेणीसंहारे-'चेटी-मैट्टिणि, परिकुविदो विअ कुमारो ल- क्खीयदि ।' इत्युपक्रमे 'भीमः- १. 'गुणाख्यानात्' इति पाठः. २. 'भत्रि, परिकुपित इव कुमारो लक्ष्यते । इति च्छाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/३२&oldid=217982" इत्यस्माद् प्रतिप्राप्तम्