एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके यथा रनावल्याम्-'सागरिका--(दृष्ट्वा सविस्मयम् ।) कंध पचक्खो जेव अणङ्गो पूअं पडिच्छेदिता । अहंपि इध द्विद जेव णं पूजइस्सम् ।' इत्यनेन वत्सराजस्यानङ्गरूपतयापहवादनङ्गस्य च प्रत्यक्षस्य पूजाग्रहणस्य लोकोत्तरत्वादद्भुतरसावेशः परिभावना। यथा च वेणीसंहारे-'द्रौपदी-कि दाणि एसो पलअजलधरत्थणि- दमंसलो खणे खणे समरदुन्दुभी ताडीयदि ।' इति लोकोत्तरसमरदुन्दु- भिवनेविस्मयरमावेशाद्रौपद्याः परिभावना ।। अथोद्भेदः- उद्भेदो गृहभेदनम् । यथा रत्नावल्यां वत्सराजस्य कुसुमायुधव्यपदेशगूढस्य वैतालिकवचसा 'अ. स्तापास्त-' इत्यादिना 'उदयनस्य--'इत्यन्तेन बीजानुगुण्येनैवोद्भेदनादुद्भेदः। यथा च वेणीसंहारे----'आर्य, किमिदानीमध्यवस्यति गुरुः । इत्युपक्रमे (नपथ्ये ।) यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं यद्विस्मर्तुमपीहितं शमवता शान्ति कुलस्येच्छना । तद्दतारणिसंभृतं नृपमुताकेशाम्बराकर्षणैः क्रोधज्योतिरिदं महत्कुरुवने यौधिष्ठिरं जृम्भते ।, भीमः---(सहर्षम् ।) जृम्भतां जम्बतां संप्रत्यप्रतिहतमार्यस्य क्रोध- ज्योतिः ।' इत्यनेन छन्नस्य द्रौपदीकेशसंयमनहेतोयुधिष्टिरक्रोधस्योद्भेद- नादुद्भदः ॥ अथ करणम्--- करणं प्रकृतारम्भो यथा रत्नावल्याम्-~~मो दे कुसुमाउह, ता अमोहदंगणो मे भवि- स्ससि त्ति । दिळं जं पेक्खिदव्वम् । ता जाव ण को वि मं पेक्लइ ता गमिस्सम् ।' इत्यनेनानन्तराङ्कप्रकृतनिर्विघ्नदर्शनारम्भणात्करणम् । १. 'कथं प्रत्यक्ष एबानङ्गः पूनां प्रतिच्छेदिता । अहमपीहस्थितनं पूजविष्यामि । इति च्छापा. २. 'किमिदानीमेष प्रलयजलधरस्तनितमांसला क्षणे क्षणे समरदुन्दुभिस्ताड्य- ते।' इति पछाया. ३. 'नमस्ते कुसुमायुध, तदमोघदर्शनो में भविष्यसीति । इट याने. क्षितव्यम् । तद्यावन कोऽपि मा प्रक्षने तद्गमिग्यामि ।' इति छाया. ... ............

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/३५&oldid=217985" इत्यस्माद् प्रतिप्राप्तम्