एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः प्रकाशः। यथा च देणीसंहारे—'तत्पाञ्चालि, गच्छामो वयमिदानी कुरुकुलक्ष- याय' इति । सहदेव:-आर्य, गच्छाम इदानीं गुरुजनानुज्ञाता विक- मानुरूपमाचरितुम् ।' इत्यनेनानन्तराङ्कप्रस्तूयमानसङ्ग्रामारम्भणात्करणमिति । सर्वत्र चेहोदेशप्रतिनिर्देशवैषम्यं क्रियाक्रमस्याविवक्षितत्वादिति ।। अथ भेदः- भेदः प्रोत्साहना मता ॥ २९॥ यथा वेणीसंहारे---'णाध, मा क्खु जण्णसेणीपरिभवुद्दीविदकोवा अ- पवेक्खिदसरीरा परिक्कमिस्सध। जदो अप्पमत्तसंचरणीयाई सुणीयन्ति रि- उनलाई । भीमा-अयि सुक्षत्रिये, अन्योन्याम्फालभिन्न द्विपरुधिरवसासान्दमस्तिष्कपङ्के मग्नानां स्यन्दनानामुपरिकृतपदन्यासविक्रान्तपत्तौ । स्फीतामृपानगोष्ठीरसदशिवशिवातूर्यनृत्यत्कवन्धे सामैकार्णवान्तःपयसि विचरितुं पण्डिताः पाण्डुपुत्राः ॥ इत्यनेन विषाणाया द्रौपयाः क्रोधोत्साहनीनानुगुण्येनैव प्रोत्साहनाझेद इति ।। एतानि च द्वादशमुखाङ्गानि बीजारम्भद्योतकानि साक्षात्पारम्पर्येण वा विधेयानि । एतेषामुपक्षेपपरिकरपरिन्यासयुक्तयुद्भेदसमाधानानामवश्यं भावितेति॥ अथ साङ्गं प्रतिमुखसंधिमाह- लक्ष्यालक्ष्यतयो दस्तस्य प्रतिमुखं भवेत् । बिन्दुप्रयत्नानुगमादङ्गान्यस्य त्रयोदश ॥ ३०॥ तस्य बीजस्य किंचिलक्ष्यः किंचिदलक्ष्य इवोद्भेदः प्रकाशनं तत्प्रतिम. खम् । यथा रत्नावल्यां द्वितीयेऽङ्के वत्सराजसागरिकासमागमहेतोरनुरागबी- जस्य प्रथमाङ्कोपक्षिप्तस्य सुसङ्गताविदूषकाभ्यां ज्ञायमानतया किंचिल्लक्ष्यस्य वासवदत्तया च चित्रफलकवृत्तान्तेन किंचिदुन्नीयमानस्य दृश्यादृश्यरूप- तयोद्भेदः प्रतिमुखसंधिरिति । वेणीसंहारेऽपि द्वितीयेऽके भीष्मादिवधेन किंचिल्लक्ष्यस्य कर्णाद्यवधा- बालक्ष्यस्य क्रोधबीजस्योद्भेदः १. 'नाथ, मा खलु याज्ञसेनीपरिभवोद्दीपितकोपा अमवेक्षितशरीराः परिक्रमिष्यथ । पतोऽप्रमत्तसंचरणीयामि श्रूयन्ते रिपुबलानि ।' इति च्छाया. २. 'लक्ष्यालक्ष्य इवो- द्वेदः' इति पाठः. u n - .-...-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/३६&oldid=217986" इत्यस्माद् प्रतिप्राप्तम्