एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके 'सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् । खबलेन निहन्ति संयुगे न चिरात्पाण्ड्डुसुतः सुयोधनम् ॥' इत्यादिभिः 'दुःशासनस्य हृदयक्षतजाम्बुपाने दुर्योधनस्य च यथा गदयोरुभङ्गे । तेजस्विनां समरमूर्धनि पाण्डवानां ज्ञेया जयद्रथवधेऽपि तथा प्रतिज्ञा ।' इत्येवमादिभिश्वोद्भेदः प्रतिमुखसंधिरिति ॥ ___ अस्य च पूर्वाङ्कोपक्षिप्तबिन्दुरूपबीजप्रयत्नार्थानुगतानि त्रयोदशाङ्गानि भवन्ति । तान्याह--- विलासः परिसर्पश्च विधृतं शमनर्मणी । नर्मद्युतिः अंगमनं निरोधः पर्युपासनम् ॥ ३१॥ चनं पुष्पमुपन्यासो वर्णसंहार इत्यपि । यथोद्देशं लक्षणमाह- रेत्यर्थेहा विलासः स्याद् यथा रत्नावल्याम्---'सागरिका-हिअअ, पसीद पसीद । कि इमिणा आआसमेत्तफलेण दुल्हनणपत्थणाणुबन्धेण ।' इत्युपक्रमे 'तेहावि आलेखगदं तं जणं कदुअ जधासमीहिदं करिस्सम् । तहावि तस्स णधि अण्णो दंसणोवाउत्ति।' इत्यतैर्वत्सराजसमागमति चित्रादिजन्यामप्युद्दिश्य सागरिकायाश्चेष्टाप्रयत्नोऽनुरागबीनानुगतो विलास इति ॥ अथ परिसपे:---- दृष्टनष्टानुसषणम् ॥ ३२ ॥ परिसर्पो ___ यथा वेणीसंहारे-- 'कञ्चकी-योऽयमुद्यतेषु बलवत्सु, अथवा कि ब- लवत्सु, वासुदेवसहायेष्वरिप्वद्याप्यन्तःपुर मुखमनुभवति । इदमपरमयथातथं स्वामिनः । १. 'प्रगयणम्' इति पाट:. २. 'रत्युत्थेहा' इति पाट:. ३. 'हृदय, प्रसीद प्र. सीद । किमनेनायासमात्रफलेन दुर्लभ जनप्रार्थनानुबन्धेन ।' इति च्छापा. ४. 'नथा- प्यालेखगतं तं जनं कृत्वा यथासमीहिन करिष्यामि । तथापि तस्य नास्त्यन्यो दर्शनो- णय इति । इति च्छाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/३७&oldid=217988" इत्यस्माद् प्रतिप्राप्तम्