एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः प्रकाशः। आशस्त्रग्रहणादकुण्ठपरशोस्तस्यापि जेता मुने. स्तापायास्य न पाण्डसूनुभिरयं भीष्मः शरैः शायितः । प्रौढानेकधनुर्धरारिविजयश्रान्तम्य चैकाकिनो । बालस्यायमरातिलूनधनुषः प्रीतोऽभिमन्योर्वधात् ॥' इत्यनेन भीष्मादिवधे दृष्टस्याभिमन्युवधान्नष्टस्य बलवतां पाण्डवानां वासुदेवस. हायानां सङ्ग्रामलक्षणबिन्दु बीजप्रयत्नान्वयेन कञ्चकिमुखेन बीजानुसर्पणं परि- सपे इति । यथा च रत्नावल्या सारिकावचनचित्रदर्शनाभ्यां सागरिकानुरागबीजम्य दृष्ट नष्टस्य 'चासौ कासो' इत्यादिना वत्सराजेनानुसरणात्परिसर्प इति ।। अथ विधूतम्- विधृतं स्यादरतिसू यथा रत्नावल्याम्-'सागरिका-संहि, अहिंअं मे संतावो बाधेदि । (सुसङ्गता दीपिकातो नलिनीदलानि मृणालिकाश्चानीयास्या अहे ददाति ।) साग- रिका—(नानि क्षिपन्नी ।) संहि, अवणेहि एदाई । किं अआरणे अत्ताणं आयासेसि । णं भणामि। दुलहजणाणुराओ लज्जा गरुई परवसो अप्पा । पिअसहि विसमं पेम्मं मरणं सरणं णवर एकम् ॥' इत्यनेन मागरिकाया बीजान्वयेन शीतोपचारविधूननाद्विधूतम् । यथा च वेणीसंहारे भानुमत्या दुःस्वप्नदर्शनेन दुर्योधनस्यानिष्टशङ्कया पाण्डवविजयशङ्कया वा रतेर्विधूननमिति ॥ अथ शम:- तच्छमः शमः। तस्या अरतेरुपशमः शमः । यथा रत्नावल्याम्-'राजा-वयस्य, अनया लिखितोऽहमिति यत्सत्यमात्मन्यपि मे बहुमानस्तत्कथं न पश्यामि ।' इति प्रक्रमे 'सागरिका-(आत्मगतम् ।) हिअअ, समम्सस । मणोरहो वि- दे एत्तिअं भूमि ण गदो ।' इति किंचिदरत्युपशमाच्छम इति ।। १. 'सखि, अधिक मे संतापो बाधते ।' इति च्छाया. २. 'सखि, अपनयैतानि । किमकारण आत्मानमायासासि । ननु भणामि । दुर्लभजनानुरागो लना गुरू परवश आत्मा। प्रियसखि विषम प्रेम मरणं शरणं केवलमेकम् ॥ इति च्छाया. ३. 'हृदय, समाश्वसिहि । मनोरथोऽपि त एतावती भूमि न गतः । इति च्छाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/३८&oldid=217989" इत्यस्माद् प्रतिप्राप्तम्