एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके श्रीरेषा पाणिरप्यस्याः पारिजातस्य पल्लवः । कुतोऽन्यथा स्रवत्येष खेदच्छमामृतद्रवम् ।।' इत्यनेन नायकयोः साक्षादन्योन्यदर्शनादिना सविशेषानुरागोद्धाटनात्पुप्पम्।। अथोपन्यासः-- उपन्यासस्तु सोपायं यथा रत्नावल्याम्-'सुसङ्गता–भट्टा, अलं सङ्काए । मए वि भ. ट्टियो पसाएण कीलिदं एव । ता कि कण्णाभरणेण । अदो वि मे ग- रुओ पसाओ, जं कीस तए अहं एस्थ आलिहि अत्ति कुविआ में पिअ- सही साअरिआ । ता पसादीअदु ।' इत्यनेन मुसङ्गतावचसा सागरिका मया लिखिता सागरिकया च त्वमिति सूचयता प्रसादोपन्यासेन बीजोद्रे दादुपन्यास इति ॥ अथ वजम्- वजं प्रत्यक्षनिष्टुरम् । यथा रत्नावल्याम्-~-'वासवदत्ता-(फलकं निर्दिश्य ।) अजउत्त, ए. सावि जा तुह समीवे, एवं किं वसन्तअस्स विण्णाणम् ।' पुनः अजउत्त, ममावि एवं चित्तकम्म पेक्खन्तीए सीसवेअणा समुप्पण्णा ।' इत्यनेन वासब- दत्तया वत्सराजस्य सागरिकानुरागौद्भेदनात्प्रत्यक्षनिष्ठुराभिधानं वज्रमिति ॥ अथ वर्णसंहारः- चातुर्वर्योपगमनं वर्णसंहार इष्यते ॥ ३५॥ यथा वीरचरिते तृतीयेऽङ्के- 'परिपदियमृपीणामेष वृद्धो युधाजि- त्सह नृपतिरमात्योमपादश्च वृद्धः । अयमविस्तयज्ञो ब्रह्मवादी पुराणः प्रभुरपि जनकानामगृहो याचकास्ते ॥' १. 'प्रसादनमुपन्यासः' इति पाठः, २. 'भर्तः, अलं शङ्कया । मयापि भर्तुः प्र. मादेन क्रीडितमेव । तरिक कर्णाभरणेन । असावपि में गुरुः प्रसादः, यत्कथं त्वयाहमन्ना- लिखितेति कुपिता में प्रियसखी सागरिका । तत्प्रसाद्यताम् ।' इति उछाया. ३. 'आ- र्यपुत्र, एषापि या तव समीपे, एतरिक बसन्तकस्य विज्ञानम् ।' इति च्छाया. ४. आय. पुत्र, ममाप्येतचित्रकर्म पश्यन्त्याः शीर्षवेदना समुत्पन्ना।' इति च्छाया. ५. 'चा. तुर्वर्णो' इति पाठः.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/४१&oldid=217992" इत्यस्माद् प्रतिप्राप्तम्