एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः प्रकाशः । इत्यनेन ऋषिक्षत्रियामात्यादीनां संगतानां वर्णानां वचसा रामविजयाश- सिनः परशुरामदुर्णयम्याद्रोहयाद्वारेणोद्भेदनाद्वर्णसंहार इति ॥ एतानि च त्रयोदश प्रतिमुखाङ्गानि मुखसंध्युपक्षिप्तबिन्दुलक्षणावान्त- रबीजमहाबीजप्रयत्नानुमतानि विधेयानि । एतेषां च मध्ये परिसर्पप्रशमव- नोपन्यासपुप्पाणां प्राधान्यम् । इतरेषां यथासंभवं प्रयोग इति ।। अथ गर्भसंधिमाह--- गर्भस्तु दृष्टनष्टस्य वीजस्यान्वेषणं मुहुः । द्वादशाङ्गः पताका स्थान वा स्यात्मासिसंभवः ॥ ३६ ॥ प्रतिमुखसंधौ लक्ष्यालक्ष्यरूपतया स्तोकोदिन्नस्य बीजस्य सविशेषो - दपूर्वकः सान्तरायो लाभः पुनर्विच्छेदः पुनः प्राप्तिः पुनर्विच्छेदः पुनश्च त- स्यैवान्वेषणं वारंवारं सोऽनिर्धारितैकान्तफलप्राप्त्याशात्मको गर्भसंधिरिति । तत्र चौत्मर्गिकत्वेन प्राप्तायाः पनाकाया अनियम दर्शयति-पताका म्यान्न वा' इत्यनेन ! प्राप्तिसंभवस्तु स्वादेवेति दर्शयति-'स्यात्' इति । यथा रत्नावल्यां तृतीयेऽके वत्सराजस्य वासवदत्तालक्षणापायेन तद्वे- पपरिग्रहसागरिकाभिसरणोपायेन च विदूषकवचसा सागरिकाला गाना - थमं पुनर्वासवदत्तया विच्छेदः पुनः प्राप्तिः पुनर्विच्छेदः पुनरपायनिवारणो- पगारोपणं 'नास्ति देवीप्रसादनं मुक्त्वान्य उपायः' इत्यनेन दर्शितमिति ।। स च द्वादशाङ्गो भवति । तान्युद्दिशति- अभूताहरणं मार्गो रूपोदाहरणे क्रमः । संग्रहश्वानुमानं च तोटकाधिवले तथा ॥ ३७॥ उद्वेगसंभ्रमाक्षेपा लक्षणं च प्रणीयते । यथोद्देशं लक्षणमाह- अभूताहरणं छम यथा रत्नावल्याम्--'साधु रे अमञ्च वसन्तअ, साधु । अदिसइदो तए अमच्चो जोगन्धराअणो इमाए संधिविग्गहचिन्ताए ।' इत्यादिना प्रवेशकेन गृहीतवासवदत्तावेषायाः सागरिकाया वत्सराजाभिसरणं छम विदूषकसु- सङ्गताकुप्तकाञ्चनमालानुवादद्वारेण दर्शितमित्यभूताहरणम् ॥ १. 'साध रे अमात्य वसन्तक, साधु । अतिशयितस्त्वयामात्यो यौगंधरायणोऽनय संधिविग्रहचिन्तया । इति च्छाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/४२&oldid=217994" इत्यस्माद् प्रतिप्राप्तम्