एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके २. अथ मार्गः- मार्गस्तत्त्वार्थकीर्तनम् ॥ ३८॥ यथा रत्नावल्याम्-'विदूषकः-दिडिआ वसि समीहिदविकाए कजसिद्धीए । राजा-वयस्य, कुशलं प्रियायाः । विदुषकः--अरेण सअं जेव्व पेक्खिअ जाणिहिसि । राजा--दर्शनमपि भविष्यति । विदू- पक:-(सगर्वम् !) कीस ण भविस्सदि, जस्स दे उवह सिदविहप्फदिबु- द्धिविहवो अहं अमच्चो । राजा-तथापि कथमिति श्रोतुमिनमामि । विदपक:----(कणे कथयति ।) एवम् । इत्यनेन यथा विदूषकेण साग- रिकासमागमः सूचितः, तथैव निश्चितरूपो राज्ञे निवेदित इति तत्त्वार्थ- कथनान्मार्ग इति । अथ रूपम्------ रूपं वितर्कवद्वाक्यं यथा रत्नावल्याम्--'राजा--अहो, किमपि कामिजनस्य वर्गा जी- समागमपरिभाविनोऽभिनवं जनं प्रति पक्षपानः । तथाहि । प्रणयविशदां दृष्टि वक्त्रे ददाति न शङ्किता घटयति धनं कण्ठाश्लेषे रसान्न पयोधरौ । वदति बहुशो गच्छामीति प्रयत्नधृताप्यहो रमयतितरां संकेतस्था तथापि हि कामिनी ।' कथं चिरयति वसन्तकः । किं नु खलु विदितः स्यादयं वृत्तान्तो देव्याः इत्यनेन रत्नावलीसमागमप्राप्याशानुगुण्येनैव देवीशङ्कायाश्च वितट्टिपछि त।। अथोदाहरणम्- सोत्कर्ष स्यादुदाहतिः । यथा रत्नावल्याम्-'विदपका-(सहर्पम् ।) ही ही भोः, कोसम्बी- रजलाहेणावि ण तादिसो वअम्सस्स परितोसो आसि, यादिसो मम सआ- १. "दिष्टा वर्धसे समीहिताभ्यधिकया कार्यसिद्ध्या ।' इति स्काया. २. 'अचिरण स्वयमेव प्रेक्ष्य ज्ञास्यमि ।' इति च्छाया. ६. 'कथं न भविष्यति, यस्य त उपहस्तिय. हस्पतिवृद्धि विभत्रोऽहममात्यः । इति छाया. ४. 'एवम्' इति च्छाया. ५ 'ही ही भोः, कौशाम्बीराज्यलाभेनापि न तादृशो वयस्यस्य परितोष आसीत् , यादृशो मम सकाशात्प्रियवचनं श्रुत्वा भविष्यतीति तयामि ।' इति च्छाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/४३&oldid=217995" इत्यस्माद् प्रतिप्राप्तम्