एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ दशरूपके अथानुमानम्- अभ्यूहो लिङ्गतोऽनुमा । यथा रत्नावल्याम्-'राजाधिङ् मूर्ख, त्वत्कृत एवायमा यो ऽस्माकमनर्थः । कुतः । समारूढा प्रीतिः प्रणयबहुमानात्प्रतिदिनं . ___ व्यलीकं वीक्ष्येदं कृतमकृतपूर्व खलु मया । प्रिया मुञ्चत्यद्य स्फुटमसहना जीवितमसौ प्रकृष्टस्य प्रेम्णः स्वलितमविषह्यं हि भवति ॥ विदूषकः-भी वअस्स, वासवदत्ता किं करइस्सदि ति ण ना। सागरिआ उण दुक्करं जीविग्मदि त्ति तक्केमि ।' इत्यत्र प्रकृष्टप्रेममय न सागरिकानुरागजन्येन वासवदत्ताया मरणाभ्यूहनम नुमानमिति ।। अयाधिबन्दम्--- अधिवलमभिसंधिः यथा रत्नावल्याम्-'काञ्चनमाला--भट्टिणि, इ सा चित्तसा- लिआ। ता वसन्तअम्स सण्णं करेमि । (छोटिकां ददाति ।) इत्यादिना वास- वदत्ताकाञ्चनमालाभ्यां सागरिकानुसङ्गतावेषाभ्यां राजविदृपकयोरभिसंधी- यमानत्वादधिवलमिति ॥ अथ तोटकम्--- संरब्ध तोटकं वचः॥४०॥ यथा रत्नावल्याम्---'वासवदत्ता--(उपमृत्य ।) अजउत्त, जुर । सरिसमिणम् । (पुनः सरोपम् ।) अजउत्त, उद्वेहि । किं अजवि आहि नाईए. सेवादुरखमणुभवीअदि । कञ्चणमाले, एदेण जेव पासेण बन्धिः आणेहि एणं दुवह्मणम् । एवं पि दुइकण्णभं अग्गदो करहि ।' इत्यनेन वासवदत्ता- संरब्धवचसा सागरिकासमागमान्तर! नानिमामिण तोटकमुक्तम्।। यथा च वेणीसंहारे- __ 'प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशाम्' १. 'भो वयस्य, वासवदत्ता किं करिष्यतीति न जानामि । सागरिका पुनर्तुष्कर जी- विष्यतीति हयामि ।' इति न्हाया. २. 'भत्रि, इयं सा चित्रशालिका । तद्वसन्तकस्य संज्ञां करोमि ।' इति च्छाया. ३. 'आर्यपुत्र, युक्तमिदं सदशमिदम् । आर्यपुत्र, उत्तिष्ठ । किमयाप्याभिजात्याः सेवादुःस्त्रमनुभूयने । काभनमाले, एतेनेर पाशेन बद्धानयेनं दुष्टब्राह्मणम् । एतामपि दुटकन्यकामग्रतः कुरु ।' इति च्छाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/४५&oldid=217997" इत्यस्माद् प्रतिप्राप्तम्