एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ दशरूपके यथा च वेणीसंहारे-'सूता--(श्रुत्वा सभयम् ।) कथमासन्न एवासौ कौ- स्वराजपुत्रमहावनोत्पातमारुतो मारुतिरनुपलब्धसंज्ञश्च महाराजः । भवतु । दूरमपहरामि स्यन्दनम् । कदाचिदयमनार्यों दुःशासन इवास्मिन्नप्यनार्यमा. चरिष्यति ।' इत्यरिकृता भीनिरुद्वेगः ॥ अथ संभ्रमः-- शङ्कात्रासौ च संभ्रमः। यथा रत्नावल्याम्-'विदूषकः-(पश्यन् ।) का उण एसा । (ससंभ्र' मम् ।) कधं देवी वासवदत्ता अत्ताणं वावादेदि । राजा...(ससंभ्रममुपसपन् ।) क्वासौ क्वासौ ।' इत्यनेन वासवदत्ताबुद्धिगृहीतायाः सागरिकाया मरणश- या संभ्रम इति । यथा च वेणीसंहारे--(नेपथ्ये कलकल: 1) अश्वत्थामा—(रासंभ्रमम् ।) मातुल, मातुल, कष्टम् । एष भ्रातुः प्रतिज्ञाभङ्गभीरुः किरीटी समं शरवपँदै- र्योधनराधेयावभिद्रवति । सर्वथा पीतं शोणितं दुःशासनम्य भीमेन ।' इति शङ्का । तथा '(प्रविश्य संभ्रान्तः सप्रहारः) सूतः--त्रायतां त्रायतां कुमारः।' इति त्रासः । इत्येताम्या त्रासशङ्काभ्यां दुःशासनद्रोणवधसूचकाभ्यां पाण्डवविजयप्रात्याशान्वितः संभ्रम इति ।। अथाक्षेपः--- ___ गर्भवीजसमुद्रेदादाक्षेपः परिकीर्तितः ॥ ४२ ॥ यथा रत्नावल्याम्-'राजा----वयस्य, देवीप्रसादनं मुक्त्वा नान्र ।- त्रोपायं पश्यामि ।' पुनः क्रमान्तरे 'सर्वथा देवीप्रसादनं प्रति निष्प्रत्याशी. भूताः स्मः ।' पुनः 'तत्किमिह स्थितेन देवीमेव गत्वा प्रसादयामि ।' इत्यनेन देवीप्रसादायत्ता सागरिकासमागमसिद्धिरिति गर्भवीनोद्रेदादाक्षेपः । यथा च वेणीसंहारे—'सुन्दरका-अहवा किमेत्य देवं उमालहामि । तस्स क्खु एवं णिमच्छिदविदुरवअणबीअस्स परिभूदपिदामहहिदोवदेस- १. 'का पुनरेषा । कथं देवी वासवदत्तात्मानं व्यापादयति । इति च्छाया. २. 'अ. भवा किमत्र देवमुपालभामि । तस्य खल्वेतत्रिसितविदुरवचनबीजस्य परिभूतपिताम- हहितोपदेशाकुरस्य शकुनिप्रोत्साहनारूढमूलस्य कृटविषशाखिनो पाबालीकेशग्रहणकुम मस्य फलं परिणमति ।' इति च्छाया,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/४७&oldid=217999" इत्यस्माद् प्रतिप्राप्तम्