एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः प्रकाशः। ङ्करस्स सउणिप्पोच्छाहणारूढमूलम्स कृद्रविममाहियो पञ्चालीकेसम्गहणकु- सुमस्स फलं परिणमेदि।' इत्यनेन बीजमेव फलोन्मुखतयाक्षिप्यत इत्याक्षेपः। एतानि द्वादश गर्भाङ्गानि प्राप्त्याशाप्रदर्शकत्वेनोपनिबन्धनीयानि । एषां च मध्येऽभूताहरणमार्गतोटकाधिबलाक्षेपाणां प्राधान्यम् । इतरेषां यथासंभवं प्रयोग इति साङ्गो गर्भसंधिरुक्तः । अधावमर्श:--- क्रोधेनावमृशेयत्र व्यसनाद्वा विलोभनात् । गर्भनिभित्रबीजार्थः सोऽवमर्शोऽङ्गसंग्रहः ॥ ४३ ॥ अवमर्शनमवमर्शः पालोचनम् । तच्च क्रोधेन वा व्यसनाद्वा विलोभनेन वा भविनत्यम् । अनेनार्थनेत्यवधारितैकान्तफलप्राप्स्यवसायात्मा गर्भसंध्युद्भिन्नवी- मार्थसंबन्धो विमर्शोऽवमर्शः । यथा रत्नावल्यां चतुर्थेऽङ्केऽग्निविद्रवपर्यन्तो मदनाममाया निरपायरत्नावलीप्राप्त्यवसायात्मा विमों दर्शितः । यथा च वेणीमंहारे दुर्योधनरूधिराक्तभीमसेनागमपर्यन्तः 'नीर्ण भीष्ममहोदधौ कथमपि द्रोणानले निवृते । कर्णाशीविपभोगिनि प्रशमिते शल्येऽपि याते दिवम् । भीमेन प्रियसाहसेन रमसादल्यावशेषे जये सर्व जीवितसंशयं वयममी वाचा समारोपिताः ।।" इत्यत्र 'म्बल्पावशेषे जये' इत्यादिभिर्विजयप्रन्यर्थिसमस्लभीष्मादिमहारथवधा- दवधारितकान्तविजयावमर्शनादवमर्शनं दर्शितमित्यवमर्शसंधिः । नम्याङ्गसंग्रहमाह- तत्रापवादसंफेटौ विद्रवद्रवशक्तयः । द्युतिः प्रसङ्गश्छलनं व्यवसायो विरोधनम् ॥ ४४ ।। परोचना विचलनमादानं च त्रयोदश । यथोद्देशं लक्षणमाह- दोपप्रख्यापवादः स्यात् १. 'सोऽवमर्श इति स्मृतः' इति पाठः,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/४८&oldid=218000" इत्यस्माद् प्रतिप्राप्तम्