एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके __ यथा रनावल्याम्-'मुसङ्गता-साखु तवस्सिणी भट्टिीए उज्ज- इणि णीअदित्ति पवादं करिअ उवत्थिदे अद्धरत्ते ण नाणीअदि कहिपि णीदेत्ति । विदूषकः---(सोद्वेगम् ।) अदिणिग्विणं क्खु कदं देवीए ।' पुनः । 'भो वअस्य, मा खु अण्णधा संभावेहि । सा खु देवीए उज्जइणीं पेंसिदा । अदो अप्पिअं त्ति कहिदम् । राजा-अहो निरनुरोधा मयि देवी ।' इत्यनेन वासवदत्तादोषप्रख्यापनादपवादः ।। यथा च वेणीसंहारे.---'युधिष्ठिरः-पाञ्चालक, कश्चिदामादिना तस्य दुरात्मनः कौरवापसदस्य पदवी । पाश्चालक:---न केवलं पदवी । स एव दुरात्मा देवीकेशपाशस्पर्शपातकप्रधानहेतुरुपलब्धः ।' इति दुर्योधनस्य दोषप्रख्यापनादपवाद इति । अथ संफेटः-- संफेटो रोपभाषणम् । __यथा वेणीसंहारे---'भोः कौरवरान, कृतं कधुनाशदर्शनमन्युना । वं विषादं कृथाः । पर्याप्ताः पाण्डवाः समरायाहमसहाय इति । पञ्चानां सत्यमेऽम्माकं यं सुयोधं सुयोधन । दंशितस्यात्तशस्त्रस्य तेन तेऽस्तु रणोत्सवः ।। इत्थं श्रुत्वासूयात्मिकां निक्षिप्य कुमारयोईष्टिमुक्तवान्धार्तराष्ट्रः- कर्णदुःशासनवधात्तुल्यावेव युवां मम । अप्रियोऽपि प्रियो योद्धं त्वमेव प्रियसाहसः ॥ इत्युत्थाय च परम्परक्रोधाधिक्षेपपरुषवाकलहप्रस्तावितबोरसट्टामौ--' इत्य- नेन भीमदुर्योधनयोरन्योन्यरोषसंभाषणाद्विजयबीजान्वयेन संफेट इति । अथ विद्रवः-- विद्रवो वधवन्यादिर १. 'सा खलु तपस्विनी महिन्योजयिनी नीयत इति प्रवादं कृत्वोपस्थितेऽधराने न ज्ञायते कुत्रापि नीतेति ।' इति च्छाया, २. 'अतिनिघृण खलु कृतं देव्या।' इति च्छाया. ३. भो वयस्य, मा खल्वन्यथा संभावय । सा खलु देव्योजयिन्यां प्रेषिता । अतोऽग्नि- यांमति कथितम् । इति छाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/४९&oldid=218001" इत्यस्माद् प्रतिप्राप्तम्