एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः प्रकाशः। शोक स्त्रीवन्नयनसलिलैर्यत्परित्याजितोऽसि भ्रातुर्वक्षःस्थलविदलने यच्च माक्षीकृतोऽसि । आसीदेतत्तव कुनृपतेः कारणं जीवितस्य क्रुद्धे युप्मत्कुलकमलिनीकुञ्जरे भीमसेने ॥ राजा-दुरात्मन् भरतकुलासिद पाण्डवपशो, नाहं भवानिव विक- स्थनाप्रगल्भः । कि तु । द्रक्ष्यन्ति न चिरात्सुप्त बान्धवास्त्वां रणाङ्गणे । मद्गदाभिन्नवक्षोऽस्थिवेणिकामङ्गभीषणम् ।।" इत्यादिना संरब्धयो मदुर्योधनयोः स्वशक्त्युक्तिविरोधनमिति । अथ प्ररोचना- सिद्धामन्त्रणतो भाविदर्शिका स्यात्मरोचना ॥ ४७ ।। यथा वेणीसंहारे---'पाञ्चालक:-अहं च देवेन चक्रपाणिमा' इत्युप- क्रम्य 'कृतं संदेहेन । पूर्यन्तां सलिलेन रत्नकलशा राज्याभिषेकाय ते ___ कृष्णात्यन्तविरोज्झिते च कबरीबन्धे करोतु क्षणम् । रामे शातकुठारभासुरकरे क्षत्रद्रुमोच्छेदिनि क्रोधान्धे च वृकोदरे परिपतत्यानौ कुतः संशयः ॥" इत्यादिना 'मङ्गलानि कर्तुमाज्ञापयति देवो युधिष्ठिरः।' इत्यन्तेन द्रौपदीके- शसंयमनयुधिष्ठिरराज्याभिषेकयो विनोरपि सिद्धत्वेन दर्शिका प्ररोचनेति। अथ विचलनम्- विकत्थना विचलनम् यधा वेणीसंहारे-'भीमः-तात, अम्ब, . सकलरिपुजयाशा यत्र बद्धा सुतैस्ते तृणमिव परिभूतो यस्य गर्वेण लोकः । रणशिरसि निहन्ता तस्य राधासुतस्य प्रणमति पितरौ वा मध्यमः पाण्डवोऽयम् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/५४&oldid=218294" इत्यस्माद् प्रतिप्राप्तम्