एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके अपि चतात, गणिताशेषकोग्य क्षीबो दुःशासनामना । भता सुयोधनम्यो:भीमोऽयं शिरसाञ्चति ।" इत्यनेन विजयवीजानुगनम्वगुणाविष्करणाद्विचलनमिति । यथा च रत्नावल्याम्-'यौगंधरायणः- देव्या मद्वचनाद्यथाभ्युपगतः पत्युर्वियोगस्तदा सा देवस्य कलत्रसंघटनया दःख मया स्थापिता । तम्याः प्रीतिमयं करिष्यति जगत्स्वामित्वलाभः प्रभोः सत्यं दर्शयितुं नथापि वदनं शक्नोमि नो लज्जया ।।' इत्यनेनान्यपरेणापि यौगंधरायणेन 'मया जगत्स्वामित्वानुबन्धी कन्यायाभो वन्सराजस्य कृतः ।' इति स्वगुणानुकीर्तनाद्विचलनमिति । अथादानम्- आदानं कार्यसंग्रहः । यथा वेणीसंहारे---- भीम:-ननु भोः समन्तपञ्चकमंचारिणः, रक्षो नाहं न भूतं रिपुरुधिरजन्दाप्लाविताङ्गः प्रकामं निस्तीर्णोरुपतिज्ञानलनिधिगहनः क्रोधनः क्षत्रियोऽस्मि । भो भो राजन्यवीराः समरशिखिशिग्नादग्धशेषाः कृतं व- ___स्वासेनानेन लीनहतकरितुरगान्तहितैरास्यते यत् ॥' इत्यनेन समस्तरिपुवधकार्यस्य संगृहीतत्वादादानम् ।। ___ यथा च रत्नावल्याम्---.'सागरिका-(दिशोऽवलोक्य ।) दिद्विआ सम- न्तादो पञ्जलिदो भअवं हुअवहो अज्ज करिस्सदि दुक्खावसाणम् ।' इत्यनेना- न्यपरेणापि दुःखावसानकार्यस्य संग्रहादादानम् । यथा च 'जगत्स्वामित्व- लामः प्रभोः' इति दर्शितमेवम् । इत्येतानि त्रयोदशावमर्शाङ्गानि । तत्रैते. घामपवादशक्तिच्यवसायप्ररोचनादानानि प्रधानानीति । अथ निर्वहणसंधिः---- बीजचन्नो मुखाद्या विमकीर्णा यथायथम् ॥ ४८ ॥ ऐकार्यमुपनीयन्ते यत्र निर्वहणं हि तत् । १. 'दिष्ट्या समन्तात्प्रज्वलितो भगवान्हुतवहोऽद्य करिष्यति दुःखावसानम् ।' इति छाया.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/५५&oldid=218295" इत्यस्माद् प्रतिप्राप्तम्